Book Title: Sishupal Vadha
Author(s): Durgaprasad Pandit, Sivadatta Pandit
Publisher: Pandurang Jawaji

View full book text
Previous | Next

Page 524
________________ ५१० शिशुपालवधे समासान्तोऽच् प्रत्ययः । 'गत' इति पाठे गतं संतमसं येषां तैः यदुयोधैर्याद वभटैर्भूयः पुनरपि जवेन युधि द्विषन्तो रेधिरे जिहिंसिरे। हता इत्यर्थः । राध्य. तेः कर्मणि लिट् । 'राधो हिंसायाम्' इत्येत्वाभ्यासलोपौ । तथाहि वारिधरोपरो. धान्मेघापवरणान्मुक्तः प्रभाणां धुतीनां पतिरकः सुतरामुत्तपत एव ननु प्रकाशत एव खलु । 'उद्विभ्यां तपः' इत्यात्मनेपदम् । अत्र यदुयोधानां द्युतिपतेश्च वाक्यभेदेन प्रतिबिम्बकरणादृष्टान्तालंकारः । न चोपमानोपमेययोभिन्नवचनत्वदोषः । लोके चन्द्रार्कादीनामुपमानानामबहुत्वेऽपि चन्द्रानना इतिवत्प्रत्येकमौपम्यात् ॥ व्यवहार इवानृताभियोगं तिमिरं निर्जितवत्यथ प्रकाशे । रिपुरुल्बणभीमभोगभाजां भुजगानां जननी जजाप विद्याम् ४१ व्यवहार इति ॥ व्यवहारे न्यायवादे अनृताभियोगं मिथ्याभिशंसनमिव प्रकाशे कौस्तुभतेजसि तिमिरं प्रस्थापनान्धकारं निर्जितवति निरस्तवति सति अथैतन्निरसनानन्तरं रिपुश्चैद्य उल्बणान्महतो भीमांश्च भोगान् फणान् , कायांश्च भजन्तीति तद्भाजः । 'भोगः सुखे ख्यादिभृतावहेश्च फणकाययोः' इत्यमरः । भुजगानां जननीमुत्पादिकां विद्यां मन्त्रं जजाप जपति स्म। भुजगास्त्रमाजहारेत्यर्थः । उल्बणेत्यत्र क्वचिदुत्फणेति पाठः । उपमालंकारः॥ पृथुदर्विभृतस्ततः फणीन्द्रा विषमाशीभिरनारतं वमन्तः। अभवन्युगपद्विलोलजिह्वा युगलीढोभयसृकभागमाविः॥४२॥ पृथ्विति ॥ ततो भुजगास्त्रप्रयोगानन्तरं पृथुदर्विभृतः । महाफणाधारिण इत्यर्थः । अत एव 'दर्वीकरो दीर्घपृष्ठ' इत्यत्र दर्वीरूपः फण एव करो हस्तो यस्य प्रहारादाविति व्याख्यातम् । आशीभिदंष्ट्राभिः । 'आशी उरगदंष्ट्रायाम्' इति वैजयन्ती । अनारतमश्रान्तं विषं वमन्त उनिरन्तः फणीन्द्रा महासर्पाः विलोलेश्वञ्चलैर्जिह्वायुगैर्लीढावास्वादितावुभौ सृक्कभागावोष्टप्रान्तदेशौ यस्मिन्कर्मणि तत्त. था । 'प्रान्तावोष्टस्य सृक्कणी' इत्यमरः । आविरभवन् । अत्र 'उभादुदात्तो नित्यम्' इति नित्यग्रहणसामर्थ्यावृत्तिविषये उभशब्दस्य स्थानेऽप्युभयशब्दस्यैव प्रयोगः उभयपुत्र इत्यादि प्रयोगसिद्धेरिति कव्युक्तमस्माभिः प्रकटितं बहुधा संजीविन्यां घण्टापथे सर्वकषायां च तत्र तत्र । स्वभावोक्तिरलंकारः ॥ कृतकेशविडम्बनैर्विहायो विजयं तत्क्षणमिच्छभिश्छलेन । अमृताग्रभुवः पुरेव पुच्छं वडवाभर्तुरवारि काद्रवेयैः ॥ ४३ ॥ कृतेति ॥ कृतकेशविडम्बनैः काया॑द्विहितकेशानुकारैः छलेन कपटेन विजयमिच्छुभिरभिलाषुकैः । 'विन्दुरिच्छुः' इति उप्रत्ययान्तो निपातितः : 'न लोक-' इत्यादिना षष्टीप्रतिषेधः । विहाय आकाशं तत्क्षणं कावेयैः कद्रुपुत्रैः फणीन्द्रैः। 'स्त्रीभ्यो ढक्' इति ढक् । पुरा पूर्वमिव अमृताग्रभुवोऽमृताग्रस्य वडवाभर्तुः उच्चैःश्रवसः पुच्छं अवारि आवृतम्। वृतेः कर्मणि लुङ् । पुरा किल कद्रुविनतयोः कश्यपभार्ययोरुचैःश्रवसः पुच्छस्य कार्ण्यश्चैत्यविवादे दास्यपणे कागवेयैः स्वमा

Loading...

Page Navigation
1 ... 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554