Book Title: Sishupal Vadha
Author(s): Durgaprasad Pandit, Sivadatta Pandit
Publisher: Pandurang Jawaji
View full book text
________________
५०८
शिशुपालवधे
सलिलेति ॥ सलिलेनागों यो वराहदेहस्तद्वन्नीलः भासं प्रकाशं करोतीति भास्करः । 'दिवाविभा-' इत्यादिना टप्रत्ययः । तमर्थशून्या भास्करत्वरूपप्रकृ. त्तिनिमित्तशून्या संज्ञा भास्कराख्या यस्य तं विदधत् । सौरालोकमभिभवन्नित्यर्थः। अन्धं करोतीत्यन्धकारः स्वापनास्त्रप्रभवतमः । कर्मण्यण् । प्रचलानि निद्राघूर्णितानि आयतलोचनान्येवारविन्दानि यस्मिन्कर्मणि तत्तथा सूर्यतिरोधा. नेऽरविन्दमुकुलीभावस्यावश्यंभावादिति भावः । तद्वलं हरिसैन्यमन्धमपश्यं विदधे । निद्रां प्राविशदित्यर्थः । अत्रान्धमन्धेति सकृद्ध्यञ्जनयुग्मपौनरुत्याद्वृत्त्या नुप्रासभेदः । तस्य वराहदेहनीललोचनारविन्देत्युपमारूपकयोः संसृष्टिः ॥ गुरवोऽपि निषद्य यन्निदद्रुर्धनुषि मापतयो न वाच्यमेतत् । क्षयितापदि जाग्रतोऽपि नित्यं ननु तत्रैव हि तेऽभवन्निषण्णाः ३४
गुरव इति ॥ गुरवो धीराः मापतयोऽपि धनुषि निषद्य शयित्वा निदद्रुः सुषुपुरिति यत् एतत् धनुषि निद्राणं वाच्यं निन्द्यं न भवति । कुतः । हि यस्माते क्षमापतयो जाग्रतोऽपि प्रबुद्धा अपि । जागर्तेः शतरि अस्य 'जक्षित्यादयः पट्' इत्यभ्यस्तसंज्ञा 'नाभ्यस्ताच्छतुः' इति नुम्प्रतिषेधः। क्षयितापदि । सर्वापनिवारक इत्यर्थः । तत्रैव धनुषि नित्यं निषण्णाः संश्रिता अभवन्ननु । जागरेऽपि धनुरेकशरणानां स्वापे तदाश्रये न दोष इत्यर्थः । अत्र सदा धनुराश्रयवाक्यार्थस्यावाच्यताहेतुत्वाद्वाक्यार्थहेतुकं काव्यलिङ्गम् ॥ श्लथतां व्रजतस्तथा परेषामगलद्धारणशक्तिमुज्झतः स्वाम् । सुगृहीतमपि प्रमादभाजां मनसः शास्त्रमिवास्त्रमग्रपाणेः ॥३५॥
श्लथतामिति ॥ तथेति पूर्वोक्तधनुराश्रयणसमुच्चये यथा तेषां धनुराश्रयणं तथान्येषां धनुर्गलनं चाभूदित्यर्थः । श्लथतां प्रयत्नशैथिल्यं व्रजतः भजतः स्वां निजां धारणशक्ति वाहनसामर्थ्य उज्झतः त्यजतः परेषां राज्ञाम् । 'अग्रं चासो पाणिश्चेति' समानाधिकरणसमासः। हस्ताग्राग्रहस्तादयो गुणगुणिनोर्भेदाभेदा. दिति वामनवचनात् । तस्मादग्रपाणेः सुगृहीतं सुष्टु तमपि अन्यत्र स्वभ्यस्तमपि प्रमादभाजां गुणनिकाद्यवधानरहितानां मनसश्चित्तात् शास्त्रं विद्येव अस्त्रमगलदभ्रश्यत् । निद्रापारवश्यादित्यर्थः । इवेन सह समासात्समासगता श्रौती पूर्णोपमा ॥ उचितस्वपनोऽपि नीरराशौ स्ववलाम्भोनिधिमध्यगस्तदानीम् । भुवनत्रयकार्यजागरूकः स परं तत्र परः पुमानजागः ॥ ३६ ।।
उचितेति ॥ नीरराशौ समुद्रे उचितस्वपनोऽपि परिचितनिद्रोऽपि तदानीं सर्वनिद्रावसरे स्वबलाम्भोनिधिमध्यगः स्वसेनासागरमध्यगतः। 'बलपाथोनिधिं' इत्यपि पाठः । भुवनत्रयकार्ये त्रैलोक्यरक्षाविधौ जागरूकः प्रबुद्धः । 'जागरूकः' इत्यूकप्रत्ययः । परः पुमान्परमपुरुषः परं केवलं हरिरेवेत्यर्थः । 'परमव्ययमि
Page Navigation
1 ... 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554