Book Title: Sishupal Vadha
Author(s): Durgaprasad Pandit, Sivadatta Pandit
Publisher: Pandurang Jawaji

View full book text
Previous | Next

Page 520
________________ • शिशुपालवधे प्रमुखेऽभिहताच पत्रवाहाः प्रसभं माधवमुक्तवत्सदन्तैः । परिपूर्णतरं भुवो गतायाः परितः कातरवत्प्रतीपमीयुः ॥ २५ ॥ प्रमुख इति ॥ पत्राणि वहन्तीति पत्रवाहाः पत्रिणश्चैद्यशराः । 'कर्मण्यण्' । माधवमुक्तवत्सदन्तैः शौरिक्षिप्तशरैः प्रसभं बलात्प्रमुखे शल्या वदने चाभिहृताः खण्डिताः सन्तः अत एव कातरैस्तैस्तुल्यं कातरवत् । तुल्यार्थे वतिप्रत्ययः । परिपूर्णतरं गतायाः । यावद्गन्तव्यं गताया इत्यर्थः । भुवोऽन्तरालभूमेः परितः प्रतीपं प्रतिकूलमीयुः प्रापुः प्रत्यागताश्च । माधवान्तिकात्परावृत्य जग्मुरित्यर्थः । चकारः पूर्वश्लोकोक्त पतनसमुच्चयार्थः । केचित्खण्डितास्तन्नैव पेतुः । केचिन्मुखेषु प्रतिहताः । प्रतिनिवृत्ता इत्यर्थः । कातरवदिति तद्धितगता श्रौती पूर्णोपमा ॥ ५०६ इतरेतरसंनिकर्षजन्मा फलसंघट्ट विकीर्ण विस्फुलिङ्गः । पटलानि लिहन्बलाहकानामपरेषु क्षणमज्वलत्कृशानुः ॥ २६ ॥ इतरेतरेति ॥ इतरेतरसंनिकर्षजन्मा शराणां मिथःसंश्लेषोत्थः । जन्मोत्तपदत्वाद्व्यधिकरणोऽपि बहुव्रीहिरिष्यते । फलसंघट्टनेन शल्यसंघट्टनेन विकीर्णा विस्फुलिङ्गा यस्य सः कृशानुरग्निर्बलाहकानाम् । वारि वहन्तीति बलाहकाः । पृषोदरादित्वात्साधुः । पटलानि लिहन्नास्वादयन् अपरेषु शत्रुषु ‘समरेषु' इति पाठे समरेषु युद्धेषु क्षणमज्वलददीप्यत । अत्र शत्रु वलाहकानामग्निदाहास्वादासंबन्धेऽपि तत्संबन्धोक्तेरतिशयोक्तिः ॥ शरदीव शरश्रिया विभिन्ने विभुना शत्रु शिलीमुखाभ्रजाले । विकसन्मुखवारिजाः प्रकामं बभ्रुराशा इव यादवध्वजिन्यः २७ शरदीव इति ॥ विभुना देवेन कर्त्रा शरश्रिया शरसंपदा करणेन शरदीव शत्रु शिलीमुखा अभ्राणीव तेषां जाले विभिन्ने सति विकसन्ति मुखानि वारिजानीव यासां ताः यादवध्वजिन्यः यदुसेनाः आशा दिश इव प्रकामं बभुः । अनेकैवेयमुपमा ॥ स दिवं समचिच्छदच्छरौघैः कृततिग्मद्युतिमण्डलापलापैः । ददृशेऽथ च तस्य चापयष्ट्यामिषुरेकैव जनैः सकृद्विसृष्टा ॥ २८ ॥ स इति ॥ कृतस्तिग्मद्युतिमण्डलस्यापलापो निह्नवो यैस्तैः । आच्छादितार्कमण्डलैरित्यर्थः । शरौघैर्दिवमाकाशं स हरिः समचिच्छदच्छादयति स्म । छादेः 'णौ चङयुपधाया ह्रस्वः' 'सन्यतः' इत्यभ्यासस्येत्वम् । युक्तं चैतत् । लघुहस्तवादस्येत्याशयेनोत्प्रेक्ष्यते । अथास्मिन्नवसरे तस्य हरेश्वापयष्ट्या मिपुः सकृदेकदा विसृष्टा मुक्ता एकैव जनैर्ददृशे दृष्टा च । इपूणां पुङ्खानुपुङ्खगमनाद्रावाने - पुरेदैव गच्छतीत्युप्रेक्षा । ईटालहत्याकाशसंछादनं युक्तमिति भावः ॥

Loading...

Page Navigation
1 ... 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554