Book Title: Sishupal Vadha
Author(s): Durgaprasad Pandit, Sivadatta Pandit
Publisher: Pandurang Jawaji
View full book text
________________
५०४
शिशुपालवधे महत्स व सदनमिवेत्युत्प्रेक्षा । समं युगपत्समन्तात्तेने । कृतमित्यर्थः । तनोतेः कर्मणि लिट् ॥
इति चेदिमहीभृता तदानीं तदनीकं दनुसूनुमृदनस्य । वयसामिव चक्रमक्रियाकं परितोऽरोधि विपाटपञ्जरेण ॥१७॥ इतीति ॥ इतीत्थं चेदिमहीभृता चैयेन तदानीं तत्काले दनुसूनुसूदनस्य दानवान्तकस्य हरेस्तदनीकं बलम् । 'वरूथिनी बलं सैन्यं चक्रं चानीकमस्त्रि. याम्' इत्यमरः । वयसां चक्रं पक्षिसङ्घ इव अक्रियाकं निश्चेष्टं यथा तथा विपाटयन्तीति विपाटाः शराः । पचाद्यच् । तैरेव पारेण परितः सर्वतः अरोधि रुद्धम् । रुधेः कर्मणि लुङ् । उपमा ॥ इषुवर्षमनेकमेकवीरस्तदरिप्रच्युतमच्युतः पृषकैः । अथ वादिकृतं प्रमाणमन्यैः प्रतिवादीव निराकरोत्प्रमाणैः १८ इष्विति ॥ अथानीकरोधनानन्तरं एकवीरो महाशूरोऽच्युतो हरिररिप्रच्युतं शत्रुगलितं तदनेकमपरिमितमिषुवर्ष पृषकैबाणैः वादिकृतं वादिना प्रयुक्तं प्रमा. गमनुमानं अन्यैः प्रमाणैः प्रत्यनुमानैः प्रतिवादीव निराकरोत् । 'इवेन सह समासो विभक्त्यलोपश्च' इति समासात्समासगता श्रौती पूर्णोपमा ॥ प्रतिकुञ्चितकूपरेण तेन श्रवणोपान्तिकनीयमानगव्यम् । ध्वनति स धनुर्घनान्तमत्तप्रचुरक्रौञ्चरवानुकारमुच्चैः ॥ १९ ।।
प्रतीति ॥ प्रतिकुञ्चितकूपरेण कुञ्चितकफोणिना । 'स्यात्कफोणिस्तु कूपरः' इत्यमरः । तेन हरिणा श्रवणोपान्तिकं नीयमाना आकृष्यमाणा गव्या ज्या यस्य तत् । 'गव्यं गवां हिते गव्या ज्यायां क्षीरादिके त्रिषु' इति विश्वः । धनुः शाङ्ग घनान्ते शरदि ये मत्ताः प्रचुरा भूरयः क्रौञ्चास्तषां रवमनुकरोतीति तदनुकारम् । क्रौञ्चकूजितसदृशं यथा तथेत्यर्थः । 'कर्मण्यण् । उच्चैस्तारं ध्वनति स्म दध्वान 'लद स्मे' इति भूते लट् । स्वभावोक्त्युपमयोः संकरः ॥ उरसा विततेन पातितांसः स मयूराश्चितमस्तकस्तदानीम् । क्षणमालिखितो नु सौष्ठवेन स्थिरपूर्वापरमुष्टिराबभौ वा॥२०॥
उरसेति ॥ तदानीं धनुष्कर्षणसमये विततेन विस्तारितेनोरसा उपलक्षितः पातितांसो नमितस्कन्धः मयूरवदञ्चितं मनोहरं मस्तकं यस्य सः। उन्नमितमूर्धेत्यर्थः । स्थिरौ दृढौ पूर्वापरौ अग्रिमचरमौ मुष्टी गृहीतलस्तलकमौर्वीकौ पाणी यस्य स हरिः । सुष्टु भावः सौष्ठवं तेन सौष्ठवेन स्थानकपाटवेन हेतुना क्षणमालिखितो नु लिखित इव आबभौ आ बभासे किम् । नुशब्दो वितर्कार्थे । 'नु पृच्छायां वितर्के च' इत्यमरः । वाशब्दोऽपि तादृश इत्युत्प्रेक्षालंकारोऽयम् ॥ ध्वनतो नितरां रयेण गुर्व्यस्तडिदाकारचलद्गुणादसंख्याः ।

Page Navigation
1 ... 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554