Book Title: Sishupal Vadha
Author(s): Durgaprasad Pandit, Sivadatta Pandit
Publisher: Pandurang Jawaji
View full book text
________________
विंशः सर्गः। तुर्विजयाय गृहीतबालाकारैरुच्चैःश्रवसः पुच्छाच्छादनं चक्रे इति कथा पुराणादनुसंधेया । उपमा ॥ दधतस्तनिमानमानुपूर्व्या बभुरक्षिश्रवसो मुखे विशालाः। भरतज्ञकविप्रणीतकाव्यग्रथिताङ्का इव नाटकप्रपञ्चाः॥४४॥
दधत इति ॥ मुखे मुखभागे मुखसंधौ च विशालाः विस्तृता आनुपूर्या अनुक्रमेण तनिमानं तनुत्वं मुखादन्यत्र शरीरे उत्तरोत्तरं तनुत्वं दधतः, अन्यत्र प्रतिमुखादिसंधिषु गोपुच्छवत्संक्षिप्तत्वं दधानाः अक्षिश्रवसः सर्पाः भरतज्ञो नाटकशास्त्रज्ञः । 'भरतो नाट्यशास्त्रेऽपि' इति विश्वः । तेन कविना प्रणीतं प्रकल्पितं यत्काव्यं कविकर्म लक्षणया काव्यार्थः कथावस्तु । ब्राह्मणादित्वात्प्यञ् प्रत्ययः । तेन ग्रथिता गुम्फिता अङ्काः परिच्छेदरूपा अवान्तरसंदर्भविशेषा येषु ते तथोक्ता नाटकप्रपञ्चा नाटकविस्तारा इव बभुरित्युपमा । 'प्रबन्धा' इति क्वचित्पाठः । 'प्रत्यक्षनेतृचरितो बिन्दुबीजपुरस्कृतः। अङ्को नानाप्रकारार्थसंविधानरसाश्रयः ॥' इति अङ्कलक्षणम् । 'मुखं प्रतिमुखं गर्भोऽवमर्श उपसंहतिः' इति संधयः॥ सविषश्वसनोद्धतोरुधूमव्यवधिम्लानमरीचि पन्नगानाम् । . उपरागवतेव तिग्मभासा वपुरौदुम्बरमण्डलाभमूहे ॥ ४५ ॥
सेति ॥ तिग्मभासा सूर्येण उपरागवता राहुग्रासवतेव । राहुग्रस्तेनेवेत्यर्थः । 'उपरागो ग्रहो राहुग्रस्ते विन्दौ च पूष्णि च'. इत्यमरवचनं ग्रासस्याप्युपलक्षणम् । पन्नगानां सविषैः श्वसनैः फूत्कारैरुद्धतेनोरुधूमेन यो व्यवधिस्तिरोधानं तेन म्लाना निष्प्रभा मरीचयो यस्य तत् । अत एवौदुम्बरमण्डलाभं ताम्रपिण्डसच्छायम् । 'अथ ताम्रकम् । शुल्बं म्लेच्छमुखब्यष्टवरिष्ठोदुम्बराणि च' इत्यमरः । वपुरूहे ऊढम् । वहेः कर्मणि लिद । यजादित्वात्संप्रसारणम् ॥ . शिखिपिच्छकृतध्वजावचूडक्षणसाशङ्कविवर्तमानभोगाः। यमपाशवदाशुबन्धनाय न्यपतन्वृष्णिगणेषु लेलिहानाः॥४६॥ शिखीति ॥ पुनःपुनर्लेहनशीला लेलिहानाः सर्पाः । लिहेर्यङ्लुगन्तात्ताच्छील्ये चानश्प्रत्यये 'गुणो यङ्लुकोः' इत्यभ्यासस्य गुणः । 'लिहेर्लिंटः कानजिति वल्लभः । तदानीमभ्यासगुणानुपपत्तिः भूतार्थासंगतिश्च शिखिपिच्छैमयूरबहः कृतेभ्यो ध्वजानामवचूडेभ्यः प्रकीर्णेभ्यः क्षणं साशङ्काः जीवन्मयूरभ्रान्त्या सभयाः अत एव विवर्तमानकायाः व्यावृतदेहाः सन्तः आशु वृष्णिगणेषु यादवसद्धेषु बन्धनाय यमपाशैस्तुल्यं यमपाशवत् कालपाशवदित्युपमा । न्यपतन् । निपत्य बबन्धुरित्यर्थः॥ पृथुवारिधिवीचिमण्डलान्तर्विलसत्फेनवितानपाण्डुराणि । दधति स्म. भुजंगमाङ्गमध्ये नवनिर्मोकरुचिं ध्वजांशुकानि ॥४७॥

Page Navigation
1 ... 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554