Book Title: Sishupal Vadha
Author(s): Durgaprasad Pandit, Sivadatta Pandit
Publisher: Pandurang Jawaji

View full book text
Previous | Next

Page 526
________________ ५१२ शिशुपालवधे पृथ्विति ॥ भुजंगमाङ्गमध्ये पृथोर्वारिधिवीचिमण्डलस्यान्तर्मध्ये विलसन्तः केना इव वितानपाण्डुरद्युतीनि शुभ्रवर्णानीत्युपमा । ध्वजांशुकानि नवनिर्मोकरुचिं नवकञ्जुकशोभां दधति स्म । 'समौ कञ्चकनिर्मोको' इत्यमरः । निर्मोकरुचिमित्यत्रान्यधर्मस्यान्यत्रासंबन्धेन निर्मोकस्येवेति सादृश्याक्षेपादसंभवद्वस्तुसंबन्धनिदर्शना फेनपाण्डुरोपमयाङ्गेन संकीर्यते ॥ कृतमण्डलबन्धमुल्लसद्भिः शिरसि प्रत्युरसं विलम्बमानैः। व्यरुचजनता भुजंगभोगैदलितेन्दीवरमालभारिणीव ॥४८॥ कृतेति ॥ जनता जनसमूहः । 'ग्रामजन-' इत्यादिना सामूहिकस्तल्प्रत्ययः। शिरसि कृतो मण्डलबन्धो वलयीभावो यस्मिन्कर्मणि तत्तथा उल्लसद्भिः प्रत्यु. रसं उरसि उरसि । 'प्रतेरुरसः सप्तमीस्थात्' इति समासान्तोऽच्प्रत्ययः । विलम्बमानैर्विशेषेण लम्बमानैः भुजंगभोगैरहिकायैः दलितेन्दीवरमालभारिणीव विकसितनीलोत्पलमालभारिणीवेत्प्रेयुत्क्षा । व्यरुचब्यरोचिष्ट । 'द्युन्यो लुङि' इति विकल्पात्परस्मैपदम् ॥ परिवेष्टितमूर्तयश्च मूलादुरगैराशिरसः सरत्नपुष्पैः । दधुरायतवल्लिवेष्टितानामुपमानं मनुजा महीरुहाणाम् ॥ ४९ ॥ परिवेष्टितेति ॥ किंचेति चार्थः । मूलात् । पादमारभ्येत्यर्थः । ल्यब्लोपे पञ्चमी । आशिरसः शिरोन्तम् । अभिविधावाङिति विकल्पादसमासः । रनरेव पुष्पैः सह वर्तन्ते इति सरत्नपुष्पैः । तेन सहेति तुल्ययोगे' इति बहुव्रीहिः । उरगैः परिवेष्टितमूर्तयो वेष्टिताङ्गाः मनुजा आयताभिर्वल्लीभिलताभिर्वेष्टितानां महीरुहाणामुपमानं सादृश्यं दधुरित्युपमा ॥ बहुलाञ्जनपङ्कपट्टनीलद्युतयो देहमितस्ततः श्रयन्तः । दधिरे फणिनस्तुरंगमेषु स्फुटपल्याणनिबद्धवर्धलीलाम् ॥५०॥ बहुलेति ॥ बहुलाञ्जनस्य सान्द्रकजलस्य पङ्कपट्टः पङ्कघनस्तद्वन्नीलद्युतयः श्यामभासः । देहं शरीरमितस्ततः पुच्छपा दिस्थानेषु श्रयन्तो भजन्तः फणिनस्तुरंगमेषु स्फुटान्युज्वलानि यानि पल्याणेषु पल्ययनेषु निबद्धानि वर्धाणि वरत्राः । 'वधं त्रपुवरत्रयोः' इति विश्वः । तेषां लीलां शोभा दधिरे दधुः । वर्धलीलामित्यत्रासंभवद्वस्तुसंबन्धा निदर्शनोक्तलक्षणा ॥ प्रसृतं रभसादयोऽभिनीला प्रतिपादं परितोऽभिवेष्टयन्ती । तनुरायतिशालिनी महाहेर्गजमन्दुरिव निश्चलं चकार ॥ ५१ ॥ प्रसृतमिति ॥ अयसा अयोवत् अभिनीला पादेषु प्रतिपादम् । विभक्त्यर्थेऽव्ययीभावः । अभिवेष्टयन्ती आयत्या आयतेन दीर्पण शालते या सा आयतिशालिनी महाहेर्महोरगस्य तनुर्वपुरन्दूः शृङ्खलेव। 'अन्दूस्तु शृङ्खलायां स्त्री' इति वैजयन्ती। रभसात्प्रसृतं प्रचरन्तं गजं निश्चलं चकार । उपमा ॥

Loading...

Page Navigation
1 ... 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554