Book Title: Sishupal Vadha
Author(s): Durgaprasad Pandit, Sivadatta Pandit
Publisher: Pandurang Jawaji

View full book text
Previous | Next

Page 516
________________ ५०२ शिशुपालवधे ऋजुतेति ॥ ऋजुता अवक्रत्वं अकुटिलबुद्धिवं च फलं शल्यं, श्रेयश्च तेन योगः शुद्धि लोहशुद्धिनिर्विषत्वं च, अन्यत्र बाह्याभ्यन्तरशुद्धिस्तां भजनीति तद्भाजां गुरोर्महतः पक्षस्य कङ्कादिपत्रस्य, सहायस्य चाश्रयः आश्रयणमेषाम. स्तीति गुरुपक्षाश्रयिणां शिलीमुखानां शराणाम् । गुणिना ज्यावता नतिमागतेन आकर्षणाकुञ्चितकोटित्वं, विधेयत्वं च प्राप्तेन चापेन सह संधिः संबन्धः समअसः साधीयान्बभूव । अबलवतां बलिनाननेण संधिरेवोचित इति भावः । अत्र प्रस्तुतचापशिलीमुखयोर्विशेषणसाम्यादप्रस्तुतारिविजिगीषुवस्तुप्रतीतेः समासो. क्तिः। तच्च साम्यं वाच्यप्रतीयमानयोरभेदाध्यवसायात्सिद्धम् । न चात्र समानालंकारशङ्का कार्या । 'समानालंकृतिर्योगे वस्तुनोरनुरूपयोः' इत्यनुरूपयोरेव वस्तुनोोंगेन तस्योपस्थानादित्यनुसंधेयम् । जिगीषुगुणयोगिनोरिह भेदात् ॥ अविषह्यतमे कृताधिकारं वशिना कर्मणि चेदिपार्थिवेन । . अरसद्धनुरुच्चकैदृढार्तिप्रसभाकर्षणवेपमानजीवम् ॥ १० ॥ अविषह्येति ॥ वशिना स्वतन्त्रेण चेदिपार्थिवेन अविषह्यतमे दुष्करे कर्मण्यरिजयव्यापारे कृताधिकारं कृतनियोगम् । नियुज्यमानमित्यर्थः । अत एव दृढचोरोः धनुष्कोट्योः प्रसभाकर्षणेन वेपमाना दोधूयमाना जीवा ज्या यस्य तत् , अन्यत्र दृढया- ताडनेन प्रसभाकर्षणेन च वेपमानः कम्पमानो जीवः प्राणो यस्येत्यर्थः । 'अतिः पीडाधनुष्कोव्योः' इत्यमरः । 'जीवः प्राणेऽस्त्रियां ना तु जन्तावात्मनि गीपतौ । त्रिषु जीवति मौव्या स्त्री इति वैजयन्ती । धनुरुच्चकैररसत् अध्वनदाक्रन्दत् । यथा राज्ञा नियुक्तः पराधीनः बलादाकृप्यमाणः कोशति तद्वदित्यर्थः । अत्रापि प्रकृतविशेषणसाम्यादप्रकृतापराध्यधिकृतपुरुष. प्रतीतेः समासोक्तिः ॥ अनुसंततिपातिनः पटुत्वं दधतः शुद्धिभृतो गृहीतपक्षाः । वदनादिव वादिनोऽथ शब्दाः क्षितिभर्तुर्धनुषः शराः प्रसस्नुः ११ अन्विति ॥ अथाकर्षणानन्तरं क्षितिभर्तुश्चैद्यस्य धनुषः सकाशात् अनुसंतत्या पतन्तीत्यनुसंततिपातिनोऽविच्छेदवर्तिनः पटुत्वं लक्ष्यभेदपाटवं, वाचकत्वशक्तिं च दधतः शुद्धिभृतः लोहशुद्धिभृतः निर्विषा वा, अन्यत्र साधव इत्यर्थः । गृहीतपक्षाः स्वीकृतककादिपत्राः, अन्यत्र गृहीतनित्यत्वादिसाध्यार्थाः । 'पक्षः पार्श्वगरुत्साध्यसहायबलभित्तिषु' इति वैजयन्ती । शराः वादिनः कथकस्य वदनाच्छब्दाः प्रतिज्ञाहेत्वादय इव प्रसञनिर्जग्मुः। श्लिष्टविशेषणेयमुपनति केचित् । श्लेष एव प्रकृताप्रकृतविषय इत्यन्ये ॥ गवलासितकान्ति तस मध्यस्थितघोरायतबाहुदण्डनासम् । ददृशे कुपितान्तकोन्नमद्भूयुगभीमाकृति कार्मुकं जनेन ॥ १२ ॥ गवलेति ॥ 'गवलं माहिषं शृङ्गम्' इत्यमरः । तद्वदसितकान्ति कृष्णवर्ण

Loading...

Page Navigation
1 ... 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554