Book Title: Sishupal Vadha
Author(s): Durgaprasad Pandit, Sivadatta Pandit
Publisher: Pandurang Jawaji
View full book text
________________
५००
शिशुपालवधे
२
त ।।
भ्यः क्विए । यद्वा चेदीनां राद चेदिराट् । 'अन्येभ्योऽपि दृश्यते' इति क्विम् । 'राजा राट् पार्थिवः क्ष्माभृत्' इत्यमरः । गतभीनिर्भीकः सन् मुरारि हरि आह्वत । अयमहं क्वासि मामभ्युपैहि इति स्पर्धया 'अमर्षादाकारयामासेत्यर्थः । विनाशकाले विपरीतबुद्धेर्दारत्वादिति भावः। स्पर्धायामाङः' इति द्वयतेलुङि तङ्, 'आत्मनेपदेष्वन्यतरस्याम्' इति च्लेरङादेशः । अत्रामर्षस्य विशेषणगत्या आह्वानहेतुत्वाकाव्यलिङ्गम् । सर्गेऽस्मिन्नौपच्छन्दसिकं वृत्तम् । वैतालीये गुर्वाधिक्यात् । तदुक्तं 'वैतालीयं द्विः स्वरा अयुपादे युग्वसवोऽन्ते गः', 'औपच्छन्दसिकम्' इति ॥ शितचक्रनिपातसंप्रतीक्षं वहतः स्कन्धगतं च तस्य मृत्युम् । अभिशौरि रथोऽथ नोदिताश्वः प्रययौ सारथिरूपया नियत्या २ शितेति ॥ अथ आह्वानानन्तरं शितचक्रनिपातं शितसुदर्शनप्रहारं संप्रतीक्षत इति शितचक्रनिपातसंप्रतीक्षम् । ईक्षतेः कर्मण्यण् । स्कन्धगतं मृत्युं वहतः तस्य चैद्यस्य रथः सारथिरूपया नियत्या विधिनेति रूपकम् । 'भाग्यं स्त्री निय. तिविधिः' इत्यमरः । नोदिताश्वः प्रेरिताश्वः सन् अभिशौरि शौरिमभि । आभिमुख्येऽव्ययीभावः । 'अव्ययादाप्सुपः' इति सुपो लुक् । प्रययौ प्रतस्थे ।
अभिचैद्यमगाद्रथोऽपि शौरेवनिं जागुडकुङ्कुमाभितानैः। गुरुनेमिनिपीडनावदीर्णव्यसुदेहस्रुतशोणितैर्विलिम्पन् ॥३॥ अभीति ॥ अथ शौरेः कृष्णस्य रथोऽपि जागुडो देशविशेषः, तत्र यत्कुङ्कुम तद्वदभिताररुणैरित्युपमा । यावकेति पाठे यावकश्च कुङ्कुमं च ताभ्यामभिताम्ररित्यर्थः । गुरूणां नेमीनां चक्रधाराणां निपीडनेन नोदनेनावदीर्णेभ्यो व्यसूनां विगतप्राणानां देहेभ्यः उतैः शोणितैरसृम्भिरवनि विलिम्पन्नुपदिहानः सन् अभिचैद्यं चैद्यमभि । समासो व्यासो वा विकल्पात् । अगात् । 'इणो गा लुङि' इति गादेशः ॥ स निरायतकेतनांशुकान्तः कलनिक्वाणकरालकिङ्किणीकः । विरराज रिपुक्षयप्रतिज्ञामुखरो मुक्तशिखः स्वयं नु मृत्युः ॥४॥
स इति ॥ निरायतोऽतिदीर्घः केतनांशुकान्तः ध्वजपटाञ्चलो यस्य सः कलनिकाणैः मधुरस्वरैः करालाः कुशलाः प्रगल्भाः किङ्किण्यः क्षुद्रघण्टिका यस्य स तथोक्तः । 'नवृतश्च' इति कप् । 'किङ्किणी क्षुद्रघण्टिका' इत्यमरः । स कृष्णस्य रथः रिपुक्षयस्य शिशुपालवधस्य प्रतिज्ञया मुखरो वाचालः अत एव मुक्तशिखो मुक्तकेशः विरराज । नाहमेनमहत्वा शिखाबन्धं करिष्यामीत्युद्धोषयन्नित्यर्थः । स्वयं साक्षान्नु मृत्युरन्तकः किमि युत्प्रेक्षा ॥
सजलाम्बुधरारवानुकारी ध्वनिरापूरितदिङ्मुखो रथस्य । प्रगुणीकृतकेकमूर्ध्वकण्ठैः शितिकण्ठैरुपकर्णयांबभूवे ॥ ५ ॥

Page Navigation
1 ... 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554