Book Title: Sishupal Vadha
Author(s): Durgaprasad Pandit, Sivadatta Pandit
Publisher: Pandurang Jawaji

View full book text
Previous | Next

Page 512
________________ ४९८ शिशुपालवधे पञ्चता कालधर्मो दिष्टान्तः प्रलयोऽत्ययः । अन्तो नाशो द्वयोर्मृत्युमरणं निधनोऽस्त्रियाम् ॥' इत्यमरः । पाञ्चभौतिकस्य शरीरस्य पञ्चधाभावः पञ्चता । अत्र स्पर्धेति हेतोरुत्प्रेक्षणाद्धेतूत्प्रेक्षा । सा च व्यञ्जकाप्रयोगाद्गम्या। स्पर्धयेवेत्यर्थः ॥ ॥समुद्गः॥ सदैव संपन्नवपू रणेषु स दैवसंपन्नवपूरणेषु । महो दधे स्तारिमहानितान्तं महोदधेऽस्तारिमहा नितान्तम् ११८ सदेति ॥ सदैव सर्वदैव संपन्नं सर्वलक्षणसमग्रं वपुर्यस्य स संपन्नवपुः । नित्यपरिपूर्णमूर्तिः । संहितायां 'ढलोपे पूर्वस्य दीर्घोऽणः' । अस्तं निरस्तमरीणां महस्तेजो येनासौ अस्तारिमहाः महानधिकः स हरिः दैवसंपत् भाग्यसंपत्तिः सैव नवं पूरणं प्रत्ययसाधनं येषां तेषु दैवसंपन्नवपूरणेषु देवसहायेषु रणेषु महोदधेर्महार्णवस्य इतान्तं प्राप्तपारं समुद्रपारगामि नितान्तं स्तारि विस्तीर्ण महस्तेजो दधे धारयामास । अर्धाभ्यासलक्षणसमुद्यमकभेदः 'अर्धाभ्यासः समुद्गः स्यादस्य भेदास्त्रयो मताः' इत्युक्तं दण्डिना । उपेन्द्रवज्रा वृत्तम् ॥ इष्टं कृत्वार्थ पत्रिणः शापाणे रेत्याधोमुख्यं प्राविशन्भूमिमाशु । शुद्धायुक्तानां वैरिवर्गस्य मध्ये ___ भर्ता क्षिप्तानामेतदेवानुरूपम् ॥ ११९ ॥ इष्टमिति ॥ शाङ्ग पाणौ यस्य शाङ्गपाणेः कृष्णस्य । 'प्रहरणार्थेभ्यः परे निष्ठासप्तम्यौ भवतः' इति पाणेः परनिपातः । पत्रिणो बाणाः इष्टमर्थ शत्रुवधात्मकं कृत्वा आधोमुख्यमधोमुखत्वमेत्य प्राप्य आशु भूमिमाविशन् शुद्ध्या लोहशुद्ध्या पवित्रतया च युक्तानां तथापि भ; स्वामिना वैरिवर्गस्य मध्ये क्षिप्तानां पातितानाम् , एतदेव अधोमुख्येन क्वचिन्निलयनमेव वानुरूपमुचितम् । सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः । जागतं वैश्वदेवीवृत्तम् । 'पञ्चा. श्वैश्छिन्ना वैश्वदेवी ममौ यौ' इति लक्षणात् ॥ ॥चक्रवन्धः ॥ सत्वं मानविशिष्टमाजिरभसादालम्ब्य भव्यः पुरो लब्धाघक्षयशुद्धिरुद्धरतरश्रीवत्सभूमिच्दा । मुक्त्वा काममपास्तभीः परमृगव्याधः स नादं हरेरेकौघैः समकालमभ्रमुदयी रोपैस्तदा तस्तरे ॥ १२० ॥ इति श्रीमाघकृतौ शिशुपालवधे महाकाव्ये श्यङ्के एकोनविंशतितमः सर्गः ॥ ५९॥

Loading...

Page Navigation
1 ... 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554