Book Title: Sishupal Vadha
Author(s): Durgaprasad Pandit, Sivadatta Pandit
Publisher: Pandurang Jawaji
View full book text
________________
४९६
शिशुपालवधे मांसव्यधोचितमुखैः शून्यतां दधदक्रियम् ।
शकुन्तिभिः शत्रुबलं व्यापि तस्येषुभिर्नभः ॥ ११३ ॥ मांसेति ॥ मांसव्यधो मांसखण्डनम् । 'व्यधजपोरनुपसर्गे' इत्यप्प्रत्ययः । तत्रोचितानि परिचितानि मुखानि चञ्चवः शल्यानि च येषां तैः शकुन्तिभिः कर्तृभिः शून्यतामचेतनत्वं, अन्यत्र तुच्छत्वममूर्तत्वं वा दधत् अन एव अक्रियमस्पन्दं शत्रुबलं व्यापि व्याप्तम् । आप्नोतेः कर्मणि लुङ् । तस्य हरेरिषुभिः नमो व्यापि । अत्रेषुपक्षिणां नभोबलयोाप्तितुल्यधर्मयोगित्वात्तुल्ययोगिताभेदः ॥
॥ एकाक्षरः॥ दाददो दुद्ददुद्दादी दादादो दुददीददोः।
दुद्दादं दददे दुद्दे ददाददददोऽददः ॥ ११४ ॥ दादद इति ॥ दद्यते इति दादः दानम् । 'दद दाने' इति कर्मणि घन्। दादं ददातीति दाददो दानप्रदः । 'भातोऽनुपसर्गे कः' । दुद्ददुद्दादी दुत् उपतापः 'टुदु उपतापे' विप् । दुतमुपतापं ददति साधूनामिति दुद्दाः खलाः । पूर्ववत्कः । तेषां दुतमुपतापं ददत इति दुद्ददुद्दादी । 'दद दाने' इति धातो. णिनिः । दादादः । दाः शुद्धिः 'दैप शोधने' क्विप् । तां ददत इति दादादः। 'दद दाने' कर्मण्यण् । दूददीददोः । दूः परितापः । 'दूङ् परितापे' विप् । तां ददतीति दूदा दुष्टाः । दीः क्षयः । 'दीङ क्षये' विप् । तां दत्त इति दीदौ . नाशदी। उभयत्रातोऽनुपसर्गे कः । दूदानां दीदौ दुष्टमर्दको दोषौ भुजौ यस्य सः दूददीददोः। दुष्टभाकभुज इत्यर्थः । ददाददददः । ददन्ते इति ददाः दातारः न ददन्ते इति अददा अदातारः तेषां द्वयानामपि ददो दाता ददाददददः । सर्वत्र 'दद दाने' पचाद्यच् । अदन्तीत्यदा बकासुरपूतनाप्रभृतयः । अदः पचाद्यच् । तान् द्यति खण्डयतीति अददः । 'दोऽवखण्डने' 'आतोऽनुपसर्गे कः' एवंभूतो हरिः । दुतं ददातीति दुद्दः दुःखदः तस्मिन् दुद्दे शत्रौ । दुतं ददत इति दुद्दादं शस्त्रम् । 'दद दाने' कर्मण्यण् । दददे ददौ । प्रयुक्तवानित्यर्थः । 'दद दाने' कर्तरि लिट् । एकाक्षरानुप्रासोऽलंकारः ॥
प्लुतेभकुम्भोरसिजैहृदयक्षतिजन्मभिः।
प्रावर्तयन्नदीरर्द्विषां तद्योषितां च सः ॥ ११५ ॥ फ्लुतेति ॥ स हरिः प्लुताः उक्षिताः इभकुम्भाः उरसि जाता उरसिजा इभकुम्भा इवोरसिजाश्च यस्तैः हृदयक्षतिभिर्वक्ष प्रहारैः मनोभङ्गैश्च विषादापादकः जन्म येषां तैः । 'हृदयं वक्षसि स्वान्ते' इति विश्वः । द्विषां तद्योषितां चारैः शोणितैरश्रुभिश्च । 'अस्रमश्रुणि शोणिते' इति विश्वः । नदीः प्रावर्तयत्प्रावाहयत् । अरिवधेन तन्नारीररोदयदित्यर्थः । अत्र द्वयानामप्यस्राणां प्रकृतत्वात्प्रकृत. श्लेषः । तेरौर्द्विषां तद्योषितां यथासंख्यबन्धाद्यथासंख्यालंकारः। तदुपजीवनेन

Page Navigation
1 ... 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554