Book Title: Sishupal Vadha
Author(s): Durgaprasad Pandit, Sivadatta Pandit
Publisher: Pandurang Jawaji
View full book text
________________
एकोनविंशः सर्गः।
४९५ शैदिगन्तव्यापकैः । अश्नोतेः कर्मण्यण् । शरैर्बाणैः अरिशिरः शत्रुशिरांसि । जातावेकवचनम् । राशिशः सङ्घशः आशु शीघ्र शुशूरे जघान । 'शूर हिंसास्तम्भनयोः' इति धातोलिट् । यक्षरानुप्रासः ॥
व्यक्तासीदरितारीणां यत्तदीयास्तदा मुहुः।
मनोहतोऽपि हृदये लेगुरेषां न पत्रिणः॥१०९॥ व्यक्तेति ॥ तदा तस्मिन्समये एषां अरीणामरिता शत्रुता मुहुर्यता आसीत् । यद्यस्मात्तस्य हरेरिमे तदीयाः पत्रिणो बाणाः मनो हरन्ति कायादुद्धरन्तीति मनोहृतः । मारका इत्यर्थः । हरतेः क्विप् । मनोज्ञाः प्रतीयन्ते । अत एव मनोहृतोऽपि हृदये मनसि न लेगुर्न लग्ना इति विरोधः । वक्षो निर्भिद्य निर्जग्मुरित्यर्थः । 'हृदयं वक्षसि स्वान्ते' इति विश्वः । विरोधाभासोऽलंकारः ॥
॥अतालव्यः ॥ नामाक्षराणां मलना मा भूद्भर्तुरतः स्फुटम् ।
अगृह्णत पराङ्गानामसूनस्रं न मार्गणाः ॥११० ॥ नामेति ॥ भर्तुः स्वामिनो नामाक्षराणां फलेषु लिखितानां मलना मालिन्यं तिरोधानं मा भूदिति बुद्ध्येत्यर्थः । अतः मार्गणाः हरिशराः पराङ्गानां अरिशरीराणामसून्प्राणानगृह्णत । गृहेर्लङ् । न अस्त्रं रक्तम् । रक्ताविलेपस्य आशुभावनिमित्तस्य स्वामिनामाक्षरमालिन्यपरिहारार्थत्वमुन्प्रेक्ष्यते-स्फुटमिति । अत्र तालव्यवर्णाभावादतालव्य इति चित्रभेदः । (इचुयशानां ताल्विति इवर्णस्य तालुस्वेऽपि व्यञ्जनापेक्ष एवायं नियम इति न दोषः॥)
आच्छिद्य योधसार्थस्य प्राणसर्वस्वमाशुगाः।
ऐकागारिकवद्भूमौ दूराजग्मुरदर्शनम् ॥ १११ ॥ आच्छिद्येति ॥ आशुगा बाणाः योधसार्थस्य वीरवर्गस्य प्राणसर्वस्वं आच्छिद्य ऐकागारिकाश्वौराः । 'चौरैकागारिकस्तेनः' इत्यमरः । 'ऐकागारिकट चौरे इत्यर्थे निपात्यत इत्येके । इकट् प्रत्यये वृद्धिश्च निपात्यते इत्यपरे । तैस्तुल्यमैकागारिकवत् । तुल्यार्थे वतिः। दूराद्भूमावदर्शनमदृश्यतां जग्मुः ॥
भीमास्त्रराजिनस्तस्य बलस्य ध्वजराजिनः।
कृतघोराजिनश्चक्रे भुवः सरुधिरा जिनः ॥ ११२॥ भीमेति ॥ जिनो हरिः अवतारान्तरनाम्ना व्यपदेशः । भीमा अस्त्रराजयो यस्य तस्य भीमास्त्रराजिनः । 'इकोऽचि विभक्तौ' इति नुमागमः। ध्वजै राजते यस्तस्य ध्वजराजिनः । ताच्छील्ये णिनिः । कृता घोरा आजियुद्धं येन तस्य कृतघोराजिनः । पूर्ववनुमागमः। तस्य बलस्य सैन्यस्य संबन्धिनी वस्तगणभूमीः सरुधिराः सास्राश्चके । चतुष्पादयमकम् ॥ - १ इयं पलिष्टीकाकृताऽनवहितचेतसा व्यलेखि । अन्येन वा केनचित्प्रमत्तेन प्रक्षिप्ता ।
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/083a481e14e63ba888307a9f414c572ea5c576ac324d4a1fdb9bd2fcd9e029f2.jpg)
Page Navigation
1 ... 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554