Book Title: Sishupal Vadha
Author(s): Durgaprasad Pandit, Sivadatta Pandit
Publisher: Pandurang Jawaji
View full book text
________________
विंशः सर्गः।
५०५
इषवो धनुषः सशब्दमाशु न्यपतन्नम्बुधरादिवाम्बुधाराः॥२१॥
ध्वनत इति ॥ ध्वनतो गर्जतः तडित इवाकारो यस्य स तडिदाकारः चलनात्तेजोमयत्वाच्चाचिरप्रभाकारश्चलन् गुणो मौर्वी यस्य तस्मात् । 'मौर्वी ज्या शिञ्जिनी गुणः' इत्यमरः । धनुषः शाात् गुयॊ महत्यः असंख्या अपरिमिता इषवोऽम्बुधरान्मेघात् अम्बुधारा इवाशु सशब्दं न्यपतन् । अत्रोपमानोपमेययोरेकलिङ्गतान्वयादिषुशब्दो द्विलिङ्गोऽपि स्त्रीलिङ्ग एव प्रयुक्त इति ज्ञापनाय गुर्व्य इति विशेषणम् ॥ शिखरोन्नतनिष्ठुरांसपीठः स्थगयन्नेकदिगन्तमायतान्तः । निरवर्णि सकृत्प्रसारितोऽस्य क्षितिभर्तेव चमूभिरेकबाहुः॥२२॥ शिखरेति ॥ शिखरं शृङ्गमिवोन्नतं निष्ठुरं चांसपीठं यस्य स एकदिगन्तं एकदिग्भागं स्थगयन् आयतान्तो द्वाधिष्ठस्वरूपः । 'अन्तोऽध्यवसिते मृत्यौ स्वरूपे निश्चयेऽन्तिके' इति वैजयन्ती । सकृत्प्रसारितः न तु पुनःपुनरिति स्थैर्योक्तिः । अस्य हरेरेकबाहुः । चापरोपितो वामबाहुरित्यर्थः । चमूभिः क्षितिभर्तेव भूधर इव निरवर्णि । साधु निरीक्षित इत्यर्थः । 'निर्वर्णनं तु निध्यानं दर्शनालोकनेक्षणम्' इत्यमरः ॥
तमकुण्ठमुखाः सुपर्णकेतोरिषवः क्षिप्तमिषुव्रजं परेण । विभिदामनयन्त कृत्यपक्षं नृपतेर्नेतुरिवायथार्थवर्णाः ॥ २३ ॥
तमिति ॥ अकुण्ठमुखाः निशितायाः प्रगल्भगिरश्च सुपर्णकेतोर्गरुडध्वजस्य हरेरिषवः परेणारिणा क्षिप्तं मुक्तमिषुव्रजं अयथार्थवर्णा असत्याक्षराः कपटवचनाः । उभयवेतना इत्यर्थः । 'कृत्यज्ञेयो यथावर्णश्चारः प्रणिधिरेव च' इत्युत्पलमाला । नेतुर्नायकस्य जिगीषोर्नृपतेः । कृत्यपक्षममात्यादिभेद्यवर्गमिव । 'कृत्या क्रियादेवतयोस्त्रिषु भेद्ये धनादिभिः' इत्यमरः । विभिदां भेदम् । षिद्भिदादिभ्योऽङ्' । अनयन्त । 'स्वरितजितः-' इत्यात्मनेपदम् ॥ दयितैरिव खण्डिता मुरारेविशिखैः संमुखमुज्वलाङ्गलेखैः। लघिमानमुपेयुषी पृथिव्यां विफला शत्रुशरावलिः पपात ॥२४॥
दयितैरिति ॥ उज्वलाः स्फुटा अङ्गेषु लेखाचित्रलेखा नखरेखाश्च येषां तैः मुरारेविशिखैर्दयितैः प्रियैरिव संमुखं समक्षमेव खण्डिता नुन्ना, अन्यत्राघमानिता अत एव विफला विशल्या अलब्धकामा च । अत एव लघिमानमगुरुत्वं अल्पता चोपेयुषी शत्रुशरावलिः पृथिव्यां पपात । अत्र प्रकृतशरावलिविशेपणसाम्यादप्रकृतखण्डितानायिकाप्रतीतेः समासोक्तिः । दयितैरिवेत्युपमा खण्डिताविशेषणान्तःपातित्वादङ्गमेव । अत एव तच्च विशेषणसाम्यं श्लिष्टतया साधारण्येनोपम्यगर्भत्वेन च भवतीत्युक्तं सर्वस्वकारैः 'ज्ञातेऽन्यासङ्गविकृते खण्डितेाकपायिता' इति । साप्येवं पृथिव्यां पततीति भावः ॥
४३ शिशु०

Page Navigation
1 ... 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554