Book Title: Sishupal Vadha
Author(s): Durgaprasad Pandit, Sivadatta Pandit
Publisher: Pandurang Jawaji

View full book text
Previous | Next

Page 489
________________ एकोनविंशः सर्गः। ४७६ धौतामसिलतां दधानः अलसं पदं दधौ । सर्वोऽपि निःशङ्कमाक्रमतेत्यर्थः । अत्र स्वर्गेच्छया विशेषणगत्या निःशङ्कप्रस्थानहेतुत्वात्काव्यलिङ्गं तद्यमकेन संसृज्यते ॥ कृतोरुवेगं युगपद्यजिगीषन्त सैनिकाः। विपक्षं बाहुपरिधैर्जङ्घाभिरितरेतरम् ॥ ३२ ॥ कृतेति ॥ सेनायां समवेताः सैनिकाः सैन्याः । सेनायाः पाक्षिकष्ठक् । बाहुभिः परिधैरिव बाहुपरिघैः बाहुदण्डैः विपक्षं शत्रु जङ्घाभिः प्रसृताभिः । 'जङ्घा तु प्रसृता' इत्यमरः । इतरेतरमन्योन्यं सयूथीयमेव कृत उरुर्महानूर्वाश्च वेगो यस्मिन्कर्मणि तद्यथा तथा युगपद्ध्यजिगीषन्त विजेतुमैच्छन् । अहमहमिकया योद्धमधावन्नित्यर्थः । विपूर्वाजयतेः सन्नन्ताल्लङि 'पूर्ववत्सनः' इत्यात्मनेपदम् । अत्र विपक्षसयूथयोर्बाहुजङ्घयोश्च प्रकृतत्वात्केवलप्रकृतास्पदा तुल्ययोगिता ॥ वाहनाजनि मानासे साराजावनमा ततः। मत्तसारगराजेभे भारीहावजनध्वनि ॥ ३३ ॥ वाहनेति ॥ ततोऽनन्तरं मानमभिमानं अस्यति क्षिपतीति तस्मिन्मानासे पराहकारहारिणि । कर्मण्यण् । मत्ताः सारगा बलभाजश्च राजेभा नृपगजा यस्मिन्मत्तसारगराजेभे साराजी श्रेष्टयुद्धे । आजेः पुंलिङ्गता ज्ञेया। भारी भार• वान् पूर्ण ईहावतामुत्साहवतां जनानां ध्वनियस्मिंस्तत् भारीहावजनध्वनि यथा तथा न नमतीत्यनमा अभङ्गुरा । पचाद्यजन्तेन नसमासः । वाहना निर्वाहयितृत्वम् । ‘ण्यासश्रन्थो युच्' । अजनि जाता। सैनिकानामित्यर्थात्सिद्धम् । जनेः कर्तरि लुङि 'दीपजन-' इत्यादिना चिण् ॥ एतत्प्रातिलोम्येन श्लोकान्तरमाह ॥श्लोकप्रतिलोमयमकम् ॥ निध्वनञ्जवहारीभा भेजे रागरसात्तमः । ततमानवजारासा सेना मानिजनाहवा ॥३४॥ निध्वनदिति ॥ निध्वनन्तो बृहन्तो जवा जवनाः हारिणो मनोहराश्चेभा यस्यां सा निध्वनजयहारीभा। ततो विस्तृतो मानवजो मनुष्यजातः आरासः कलकलो यस्यां सा ततमानवजारासा मानिनां मानवतां जनानामाहवो यस्यां सा मानिजनाहवा सेना रज्यतेऽनेनेति रागः क्रोधः स एव रसस्तस्मादागरसात् तमो मोहं भेजे । क्रोधान्धाजनीत्यर्थः । अत्र प्रातिलोम्येन पूर्वश्लोकावृत्तेः श्लोकप्रतिलोमयमकम् । तदुक्तं दण्डिना-'आवृत्तिः प्रातिलोम्येन पादार्धश्लोकगोचरा । यमकं प्रतिलोमत्वात्प्रतिलोममिति स्मृतम् ॥' इति ॥ अभनवृत्ताः प्रसभादाकृष्टा यौवनोद्धतैः । चक्रन्दुरुच्चकैसृष्टिग्राह्यमध्या धनुर्लताः ॥ ३५ ॥

Loading...

Page Navigation
1 ... 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554