Book Title: Sishupal Vadha
Author(s): Durgaprasad Pandit, Sivadatta Pandit
Publisher: Pandurang Jawaji
View full book text
________________
एकोनविंशः सर्गः।
४७९ पुरः प्रयुक्तैयुद्धं तच्चलितैलब्धशुद्धिभिः।
आलापैरिव गान्धर्वमदीप्यत पदातिभिः॥४७॥ पुर इति ॥ तद्युद्धं पुरः प्रयुक्तैः गजादिभ्यः प्राक् प्रवर्तितैः । अन्यत्र गानात्पूर्वमुच्चारितैः चलितैः मण्डलचारिभिः। अन्यत्र मुहुरावर्तितैरित्यर्थः । लब्धशुद्धिभिः । कातर्यकपटादिदोषरहितैरित्यर्थः । अन्यत्रावृत्तैः । रागानुगुणैरित्यर्थः। पदातिभिः पत्तिभिः करणैः गान्धर्व गानमालापैरालापिभिरिवाक्षरविशेषैरि. वादीप्यताशोभत ॥
केनचित्स्वासिनान्येषां मण्डलाग्रानवद्यता।
प्रापे कीर्तिप्लुतमहीमण्डलामाऽनवद्यता ॥४८॥ केनचिदिति ॥ स्वासिना स्वखड्नेन अन्येषां मण्डलामानवद्यता खण्डयता । द्यतेर्लटः शत्रादेशः । केनचिद्वीरेण कीर्तिप्लुतं यशोव्याप्तं महीमण्डलाग्रं भूपृष्टं यस्याः सा कीर्तिप्लुतमहीमण्डलामा अनवद्यता अनिन्द्यता प्रापे प्राप्ता॥
विहन्तुं विद्विषस्तीक्ष्णः सममेव सुसंहतेः।
परिवारात्पृथक्के खड्गश्चात्मा च केनचित् ॥ ४९ ॥ विहन्तुमिति ॥ केनचिद्वीरेण विद्विषो विहन्तुं तीक्ष्णो निशितः परिच्छेत्ता च खड्गः सुसंहतेः सुघटितात्सुष्टु सङ्घीभूताच्च । परिवारात्कोशात् , परिजनाच्च । 'परिवारः परिजने खगकोशे परिच्छदे' इति विश्वः । सममेव पृथक चक्रे उद्धृतः। आत्मा च पृथक् चक्रे विभक्तः । खड्गमुत्कृष्य स्वसैन्यान्निर्गत्या. रिमध्ये पपातेत्यर्थः । अत्र खगात्मनोः प्रकृतयोः समानक्रियायोगात्केवलप्रकृ. तास्पदा तुल्ययोगिता ॥
अन्येन विदधेरीणामतिमात्रा विलासिना ।
उद्गुणेन चमूस्तूर्णमतिमात्राविलासिना ॥ ५० ॥ अन्येनेति ॥ अन्येन वीरेण विलासिना विलसनशीलेन उद्गुणेनोद्यतेन असिना खङ्गेन मात्रं मानमतिकान्तातिमात्रा अपरिमिता अरीणां चमूः सेना तूर्ण शीघ्रमतिमात्रमत्यन्तमाविला कलुषा अतिमात्राविला अत्याविला विदधे कृता ॥
सहस्रपूरणः कश्चिल्लूनमूर्धाऽसिना द्विषः ।
ततोर्ध्व एव काबन्धीमभजनर्तनक्रियाम् ॥५१॥ सहस्रेति ॥ पृणातीति पूरणः । 'पृ पालनपूरणयोः' कर्तरि ल्युट् । सहस्राणां १ अस्माद्धातोल्युटि 'इत्वोत्वाभ्यां गुणवृद्धी विप्रतिषेधेन' इति वार्तिकाद्गुणस्यैव न्याय्यत्वात् क्युन्युल्वेऽपि दीर्घस्याप्राप्तेश्चिन्त्यमिदम् । तस्मात् 'पूरी आप्यायने' इति धातुर्बोध्यः । अत एव :'पूरणी' इति पदव्याख्यायाम् 'पूरयति' इति स्वामिनोक्तम् । अत एव वल्लभेनापि 'पूर्यन्ते आप्यायन्ते' इति विवरणं कृतम् ।
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/420973e9658ec5dd53bbcfb47dcc94b3b79f683c9529a2ae89b00869d28d4df7.jpg)
Page Navigation
1 ... 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554