Book Title: Sishupal Vadha
Author(s): Durgaprasad Pandit, Sivadatta Pandit
Publisher: Pandurang Jawaji
View full book text
________________
४८०
शिशुपालवधे पूरणः पालयिता पूरयिता सहस्रपूरणः सहस्ररक्षी सहस्रहन्ता वा कश्चिभटः । कबन्धस्तु सहस्रपूरणः सहस्रसंख्यापूरकः । सहस्रादेकः कबन्धो नृत्यतीति प्रसिद्धिः । असिना स्वामिना द्विषो लूनमूर्धा लूनशत्रुमूर्धा । सापे. क्षत्वेऽपि गमकत्वात्समासः । कबन्धस्तु द्विषोऽसिना लूनमूर्धा तथा कबन्धव. देवोर्ध्व एव तिष्ठति । कबन्धस्येमां काबन्धी नर्तनक्रियामभजत् । विजयहर्षास्वयमपि कबन्धवन्ननतेत्यर्थः । अत एव सादृश्याक्षेपादसंभवद्वस्तुसंबन्धाख्यो निदर्शनाभेदः । 'कबन्धोऽस्त्री क्रियायुक्तमपमूर्धकलेवरम्' इत्यमरः॥
शस्त्रत्रणमयश्रीमदलंकरणभूषितः । ददृशेऽन्यो रावणवदलङ्करणभूषितः ॥ ५२ ॥ शस्त्रेति ॥ शस्त्रवणमयानि तद्रूपाणि । स्वार्थे मयट् । तैरेव श्रीमद्भिः शोभावद्भिरलंकरणैरलंकारैर्भूषितोऽलंकृतः। शस्त्रव्रणालंकृत इत्यर्थः । अन्यः कश्चित् , अविद्यमाना लङ्का यस्याः सा अलङ्केति बहुव्रीहिः । अत एव 'स्त्रियाः पुंवत्-' इत्यादिना पुंवद्भावः । सा रणभूश्च तस्यामुषितः स्थितोऽलङ्करणभूषितः । वसेर्निवासार्थात्कर्तरि क्तः 'वचिस्वपि' इत्यादिना संप्रसारणम् । रावणवद्ददृशे दृष्टः । सर्वाङ्गीणव्रणभूषणत्वेन रावण एवायं लङ्कासंबन्धविरहात्तु व्यतिरेक इत्यर्थः । उपमाव्यतिरेकयमकानां संकरः ॥
द्विपद्विशसनच्छेदनिरस्तोरुयुगोपरः।
सिक्तश्चात्रैरुभयथा बभूवारुणविग्रहः ॥ ५३ ।। द्विषदिति ॥ द्विषद्विशसनम् । 'निर्वापणं विशसनं मारणं प्रतिघातनम्' इत्यमरः । तस्मिंश्छेदेनारिशस्त्रप्रहारेण निरस्तमूरुयुगं यस्य सः अत एवात्रैरसृ. भिश्च सिक्तोऽपरो वीरः उभयथा उभाभ्यां प्रकाराभ्याम् । 'प्रकारे गुणवच. नस्य' इति थाल । अरुणस्यानूरोरिव अरुणोऽरुणवर्णश्च विग्रहो यस्य सोऽरुण. विग्रहो बभूव । 'अरुणोऽर्कार्कसारथ्योररुणो लोहितेऽन्यवत्' इति विश्वः । अत्रोरुच्छेदास्रसिक्तयोविशेषणगत्योभयथारुणविग्रहभावहेतुत्वाकाव्यलिङ्गमुपमा. श्लेषाभ्यां संकीर्यते ॥
भीमतामपरोऽम्भोधिसमेधित महाहवे ।
दाक्षे कोपः शिवस्येव समेधितमहा हवे ॥ ५४॥ भीमेति ॥ अम्भोधिसमे सागरसदृशे महानाहवस्तस्मिन्महाहवे सम्यगेधितमहाः संवर्धिततेजाः अपरो वीरः दक्षप्रजापतेरयं दाक्षस्तस्मिन्दाक्षे हवे यज्ञे । 'हवो यज्ञे तथाबाने' इति विश्वः । समेधितमहाः संदीपिततेजाः शिवस्य कोप इव । वीरभद्र इवेत्यर्थः । भीमतां भयंकरतामधित धृतवान् । बिभ्यत्यस्मादिति भीमः । 'भियः पुग्वा' इत्यौणादिके मप्रत्यये भीमो भीष्मश्च ‘भीमादयोअपादाने' इति निपातनादपादानार्थता । उपमायमकयोः संसृष्टिः ॥

Page Navigation
1 ... 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554