Book Title: Sishupal Vadha
Author(s): Durgaprasad Pandit, Sivadatta Pandit
Publisher: Pandurang Jawaji
View full book text
________________
एकोनविंशः सर्गः। ४८१ दन्तैश्चिच्छिदिरे कोपात्प्रतिपक्षं गजा इव ।
परनिस्त्रिंशनिळूनकरवालाः पदातयः ॥ ५५ ॥ दन्तैरिति ॥ परेषां निस्त्रिंशः खङ्गैनिलूनकरवालाः छिन्नखगाः पादाभ्यामतन्तीति पदातयः पत्तयः । 'अज्यतिभ्यां पादे च' इत्यौणादिक इण् । 'पादस्य पदाज्यातिगोपहतेषु' इति पदादेशः । कोपात् गजा इव प्रतिपक्षं शत्रु दन्तैर्दशनैर्विषाणैश्च चिच्छिदिरे चिच्छिदुः॥
रणे रभसनिर्भिनद्विपपाटविकासिनि ।
न तत्र गतभीः कश्चिद्विपपाट विकासिनि ॥५६॥ रण इति ॥ रभसेन वेगेन 'रभसो वेगहर्षयोः' इति विश्वः । निर्भिन्नद्विपाः पाटितगजाः पाटविकानां पाटववतामसयो यस्मिन् । पाटवशब्दान्मत्वर्थीयष्ठक्प्रत्ययः । विकासिनि प्रवृद्ध तत्र तस्मिन्रणे गतभीनिर्भीकः । अत एव कश्चिकोऽपि न विपपाट न पाटयामास न पलायत । अत्र गतभीकत्वस्य विशेषणगत्या अपलायनहेतुत्वात्काव्यलिङ्गम् । द्विपदलनेऽपि रणे निर्भीक इति विरोधश्च यमकेन संसृज्यते ॥
यावन्न सत्कृतैर्भर्तुः स्नेहसानृण्यमिच्छभिः ।
अमर्यादितरैस्तावत्तत्यजे युधि जीवितम् ॥ ५७॥ यावदिति ॥ सत्कृतैः स्वस्वामिना पूर्वसंमानितैः । अत एव भर्तुः स्नेहस्य स्वामिप्रेम्ण आनृण्यमनृणत्वमिच्छुभिः । योधैरिति शेषः । युधि जीवितं यावन्न तत्यजे त्यक्तं तावदितरैरसत्कृतैरमर्षादसत्कारक्रोधाजीवितं तत्यजे । अथ वास्मान्पश्येति स्वामिनमुपालभ्य स्वयमेव प्राक्प्राणान्प्रजहुरित्यर्थः । सस्कारा. दिविशेषणोत्थकाव्यलिङ्गं सुगमम् ॥
॥समुद्यमकम् ॥ अथैवंविधानां मरणस्यैव कर्तव्यतामुपपादयति
अयशोभिदुरालोके कोपधाम-रणादृते ।
अयशोभिदुरा लोके कोपधा मरणाहते ॥ ५८ ॥ अयश इति ॥'अयः शुभावहो विधिः' इति अयशोभी भाग्यवान्स चासौ दुरालोकस्तेजस्वित्वा दर्शश्चेति विशेषणसमासः । तस्मिन्नयशोभिदुरालोके कोपधाम कोपाश्रयः । कुपित इत्यर्थः । अथाप्यकोपे भीरुत्वापातात् । अत एव रणमाहतः रणादृतः । रणार्थीत्यर्थः । कर्तरि तः। कोपधाम चासौ रणाहतश्च तस्मिकोपधामरणाहते लोके एवं विधे वीरलोके । अयशोभिदुरा स्वाम्यनादरनिमित्तापकीर्तिनिवर्तिका । 'विदिभिदिच्छिदेः कुरच्' । उपधा उपायो भरणाहते। प्राणत्यागं विनेत्यर्थः। का । न कापीत्यर्थः । 'अन्यारादितरते-' इति पञ्चमी । अत्रायशोभित्त्वादीनां लोकविशेषणद्वारा तद्वर्तिनामुपजीविनामवसरे जीवत्यागहेतु
४१ शिशु०

Page Navigation
1 ... 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554