Book Title: Sishupal Vadha
Author(s): Durgaprasad Pandit, Sivadatta Pandit
Publisher: Pandurang Jawaji
View full book text
________________
एकोनविंशः सर्गः ।
अन्तकस्य पृथौ तत्र शयनींय इवाहवे । दशनव्यसनादीयुर्मत्कुणत्वं मतङ्गजाः ॥ ७१ ॥
अन्तकस्येति ॥ अन्तकस्य मृत्योः संबन्धिनि शेतेऽस्मिन्निति शयनीये । तल्प इव स्थिते इत्यर्थः । ‘कृत्यल्युटो बहुलम्' इत्यधिकरणेऽनीयर् । पृथौ विशाले तत्राहवे मतङ्गजा दन्तव्यसनाद्विषाणभङ्गाद्धेतोः मत्कुणत्वमीयुः । मत्कुणा इव दृष्टा इत्यर्थः । सुप्तरक्तपायिनः खट्टाश्रयाः कीटविशेषा मत्कुणाः । 'कालेऽप्यजातदन्ते च शय्याजन्तौ च मत्कुणः' । तत्सादृश्याददन्तेषु दन्तिषु तथात्वरूपकं अन्तकस्य शयनीय इवेत्युत्प्रेक्षासापेक्षमपि संकरः ॥
अथ युग्मेनाह
॥ अर्धभ्रमकः ॥
म ति के
अ भी क भी ता क न त्स का म से
न
न्द स्य ना
ने
श
ना
द्धे
ने ।
के
४८५
म स्य
ति ॥ ७२ ॥
I
म न्द का म क अभीकेत्यादि ॥ अभीका निर्भीका मतिर्यस्य तेनाभीकमतिकेन निर्भयचित्तेन । शैषिकः कप्प्रत्ययः । इद्धे दीप्ते । भीतानामानन्दस्य नाशने । नशेर्ण्यन्तारकतरि ल्युट् । कनन्ती दीप्यमाना सकामा विजयित्वात्पूर्णकामा सेना यत्र तस्मि - कनरसकामसेनाके । पूर्ववत्कप् । मन्दकामकं मन्दोत्साहम् । पूर्ववदेव कपू । अस्यति निराकुर्वाणे रण इत्युत्तरेण संबन्धः । अत्र सर्वतोभद्भवत्सर्वपादभ्रमणाभावात्पदार्थानामेव भ्रमणादर्धभ्रमकम् । उद्धारस्तु सर्वतोभद्रवत्स्यादेव ॥
दधतोऽपि रणे भीममभीक्ष्णं भावमासुरम् । हताः परैरभिमुखाः सुरभूयमुपाययुः ॥ ७३ ॥
दधत इति ॥ रणे पूर्वोक्तप्रकारे अभीक्ष्णमत्यन्तं भीमं भयंकरं आसुरम् सुरसंबन्धिनं भावं पुरुषकारलक्षणम् । 'भावो लीलाक्रियाचेष्टा भूत्यभिप्रायजन्तुषु' इति वैजयन्ती । असुरत्वं च बुधतः दधाना अपि परैः शत्रुभिः अभिमुखा एव स्थिताः । हता वीरा इति शेषः । अत एव सुराणां भावं सुरभूयं सुरत्वं देवत्वमुपाययुः । 'स्वर्गं यान्त्यपराङ्मुखाः' इति स्मरणादिति भावः । 'भुवो भावे' इति क्यप् । अन्नासुरभावेऽपि सुरभूयमुपाययुरिति विरोधस्य भावशब्दस्यार्थान्तरत्वेन परिहाराद्विरोधाभासः ॥ इति युग्मम् ॥
येनाङ्गमूहे व्रणवत्सरुचा परतोमरैः ।
समत्वं स ययौ खड्गत्सरुचापरतोऽमरैः ॥ ७४ ॥ येनाङ्गमिति ॥ रुचा सह वर्तते यस्तेन सरुचा तेजस्विना येन वीरेण परतो
Page Navigation
1 ... 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554