Book Title: Sishupal Vadha
Author(s): Durgaprasad Pandit, Sivadatta Pandit
Publisher: Pandurang Jawaji
View full book text
________________
४८६
शिशुपालवधे ऽमरैः शत्रुशस्त्रैः व्रणवत्सवणमङ्गमूहे ऊढम् । वहेः कर्मणि लिट् संप्रसारणम् । खड्गत्सरौ खड्गमुष्टौ चापे च रतः खड्गत्सरुचापरतः । खङ्गेषुप्रहारेण युद्धं कुर्वनित्यर्थः । 'त्सरुः खगादिमुष्टौ स्यात्' इत्यमरः । स वीरोऽमरैः समत्वं ययौ । पौरुषेणेति भावः । उपमायमकयोः संसृष्टिः ॥
निपातितसुहृत्स्वामिपितृव्यभ्रातृमातुलम् ।
पाणिनीयमिवालोकि धीरस्तत्समराजिरम् ।। ७५ ॥ निपातितेति ॥ निपातिता वीरशय्यां गमिताः सुहृदादयो यत्र तत्तथोक्तम् । अभिमुखबन्धोरपि रणे वध्यत्वादिति भावः । अन्यत्र निपातिताः लक्षणाभावे शब्दसाधुत्वाय सूत्रकृता सूत्रस्वरूपेणोच्चारिताः सुहृदादिशब्दा यत्र तदित्यर्थः । अत एव तत्समराजिरं रणाङ्गणम् । पाणिनिना प्रोक्तं पाणिनीयमष्टाध्यायीव्याकरणमिव । 'तेन प्रोक्तम्' इति छप्रत्ययः । धीरैष्टैरेवालोकि दृष्टम् । उभयत्रापि धीरैर्दुरवगाहत्वादिति भावः । शोभनं हृदयं यस्य स सुहृत् । 'सुहृदुहृदौ मित्रामित्रयोः' इति हृदयशब्दस्य हृद्भावो निपातितः। स्वमस्यास्तीति स्वामी ईश्वरः । 'स्वामिन्नैश्वर्ये' इति मत्वर्थीयनिपातः । 'पितुर्भ्राता पितृव्यः स्यान्मातुर्भ्राता तु मातुलः' इत्यमरः । 'पितृव्यमातुलमातामहपितामहाः' इति व्यडुलजन्तनिपाताः । बिभर्तीति भ्राता । नप्तृनेष्ट्रादिसूत्रादौणादिको निपातः ॥
अभावि सिन्ध्वा संध्याभ्रसग्रुधिरतोयया । हृते योद्धं जनः पांशौ स युधि रतो यया ॥ ७६ ॥ अभावीति ॥ संध्याभ्रसदृक् संध्यामेघसदृशं रुधिरमेव तोयं यस्यास्तया सिन्ध्वा रक्तनद्या अभावि भूतम् । भावे लुङि चिण् । यया सिन्ध्वा दृशो रुणद्वीति दृधि दृष्टिरोधके । रुधेः क्विप् । पांशो रजसि हृते सति स जनो वीरलोको योद्धं रत उत्सुकः । अभूदिति शेषः । उपमायमकयोः संसृष्टिः ॥
विदलत्पुष्कराकीर्णाः पतच्छङ्खकुलाकुलाः ।
तरत्पत्ररथा नद्यः प्रासर्परक्तवारिजाः ॥ ७७ ॥ विदलदिति ॥ विदलद्भिर्विदीर्यमाणैः पुष्करैः करिहस्ताङ्गः, अन्यत्र विकसद्भिः पद्मराकीर्णा व्याप्ताः । पतद्भिः शङ्खकुलैः ललाटास्थिसङ्घः कम्बुसङ्घश्चाकुलाः । तरन्ति प्लवमानानि पत्राणि वाहनानि रथाश्व, अन्यत्र पत्ररथा अण्डजा यासु ताः रक्तवारिजा रुधिरतोयजन्याः, अन्यत्र रक्तानि वारिजानि यासु ताः दद्यः प्रासर्पन्प्रावहन् । अत्र नदीनां रक्तनदीनां च श्लेषः ॥
असृग्जनोऽस्त्रक्षतिमानवमज्जवसादनम् । रक्षःपिशाचं मुमुदे नवमजवसादनम् ॥ ७८ ॥ असृगिति ॥ अस्त्रक्षतिमानस्त्रप्रहारवान् जनो वीरजनोऽसृरक्तं जवसादनं जवस्य चेष्टावेगस्य सादनं सादकं यथा स्यात्तथा अवमत् । नवयोर्मजवसयोमंदोर

Page Navigation
1 ... 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554