Book Title: Sishupal Vadha
Author(s): Durgaprasad Pandit, Sivadatta Pandit
Publisher: Pandurang Jawaji

View full book text
Previous | Next

Page 503
________________ एकोनविंशः सर्गः। ४८९ उपैतुकामैस्तत्पारं निश्चितैर्योगिभिः परैः। देहत्यागकृतोद्योगैरदृश्यत परः पुमान् ॥ ८७॥ उपैत्विति ॥ एवंभूतः परः पुमान्परमपुरुषो हरिः । तत्पारं तस्य हरेः पारं अन्तमुपैतुकामैस्तं जिगीषुभिः । अन्यत्र दिक्षुभिरित्यर्थः । 'तुं काममनसोरपि' इति मकारलोपः । निश्चितैः । योद्धं कृतनिश्वयैरित्यर्थः । अन्यत्र निश्चिततत्वैः । सकर्मकादप्यविवक्षिते कर्मणि क्तः । यद्वा पीता गावः, विभक्ता भ्रातर इत्यादिवदूहयितव्यम् । स्फुटीकृतं चैतद्धण्टापथे ‘स वर्णिलिङ्गी विदितः' इत्यत्र । देहत्यागकृतोद्योगैमरणोद्यतैः । अन्यत्र मुमुक्षुभिरित्यर्थः । योगिभिः संनाहवनिरुपायवद्भिर्वा, अन्यत्र ध्यानवद्भिः । 'योगः संनहनोपायध्यानसंगतियुक्तिषु' इत्यमरः । परैः शत्रुभिः, अन्यत्र परमयोगिभिः अदृश्यत । परेषामग्रेऽतिष्ठदित्यर्थः । अन्यत्र साक्षात्कृतः 'तमेव विदित्वातिमृत्युमेति' इति श्रुतेः। अर्थान्तरप्रतीतिर्ध्वनिरेव न श्लेषः । अभिधायाः प्रकृतार्थे नियन्त्रणात् ॥ ॥गतप्रत्यागतम् ॥ युग्मेनाह तं श्रिया घनयाऽनस्तरुचा सारतया तया । यातया तरसा चारुस्तनयाऽनघया श्रितम् ॥ ८८॥ तमिति ॥ घनया आनन्दसान्द्रया । अनस्तरुचा अक्षीणकान्त्या । सारतया सारस्वेन सर्वोत्कर्षगुणेन यातया व्याप्तया । चारुस्तनया रम्यकुचया। 'स्वाङ्गाचोपसर्जनादसंयोगोपधात्' इति विकल्पादनीकारः। अनघया निर्दोषया तया प्रसिद्वया श्रिया रमया तरसा त्वरया श्रितमालिङ्गितं तं हरिमुवीक्ष्येत्युत्तरेण संबन्धः। अनापि प्रातिलोम्येनार्धावृत्तेरर्धप्रतिलोमयमकम् । एतल्लक्षणं तु प्रागेवोक्तम् ॥ विद्विषोऽद्विषुरुद्वीक्ष्य तथाप्यासनिरेनसः। अरुच्यमपि रोगनं निसर्गादेव भेषजम् ॥ ८९ ॥ ॥ युग्मम्॥ विद्विष इति ॥ तं पूर्वोक्तं हरिमुवीक्ष्य विद्विषः शत्रवोऽद्विषुः द्विषन्ति स्म । लङि 'द्विषश्च' इति विकल्पेन झेर्जुसादेशः। तथापि द्विषन्तोऽपि निरेनसो निष्पापा आसन् । द्वेषवीक्षणस्याप्येनोनिवर्तकत्वं दृष्टान्तेनाह-अरुच्यमिति । रोचत इति रुच्यम् । 'राजसूय-' इत्यादिना क्यबन्तो निपातितः । अरुच्यमानमपि भेषजमौषधम् । 'भेषजौषधभेषज्यानि' इत्यमरः । निसर्गात्स्वभावशक्तेरेव रोगं हन्तीति रोगनमारोग्यकारि । ‘हरिहरति पापानि' इति वचनादिति भावः । 'अमनुष्यकर्तृके च' इति टप्रत्ययः॥

Loading...

Page Navigation
1 ... 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554