Book Title: Sishupal Vadha
Author(s): Durgaprasad Pandit, Sivadatta Pandit
Publisher: Pandurang Jawaji
View full book text
________________
४२८
शिशुपालवधे मुप्रत्ययः । अस्विदत्स्विद्यति स्म । स्विदेलुंङि पुषादित्वादप्रत्ययः । अत्रोप्मविशेषणगत्या स्वेदहेतुत्वाकाव्यलिङ्गम् । वीजनेऽपि स्वेद इति विरोधः । विजिरयं चुरादिप्वन्वेषणीयः ॥ प्रजापतिक्रतुनिधनार्थमुत्थितं व्यतर्कयज्वरमिव रौद्रमुद्धतम् । समुद्यतं सपदि वधाय विद्विषामतिक्रुधं निषधमनौषधं जनः ॥७॥
प्रजेति ॥ जनः सपदि विद्विषां वधाय समुद्यतमुद्युक्तं उद्धतं तीव्रम् अत एवातिक्रुधमधिकक्रोधि । अनौषधम् । अप्रतीकारमित्यर्थः । निषधं निषधाख्यं नृपं प्रजापतिक्रतुनिधनार्थ दक्षाध्वरध्वंसनार्थमुत्थितं रुद्रस्येमं रौद्रं रुदसंबन्धिनं ज्वरमिव वीरभद्ररूपिणमित्यर्थः । व्यतर्कयत् । अन्न राज्ञोऽपि प्रजापतित्वात्पुनः प्रजापतिक्रतुनिधनार्थमुत्थितः साक्षादक्षाध्वरविध्वंसी वीरभद्र इवायमित्युत्प्रेक्षितवानित्यर्थः । उपमा ॥ परस्परं परिकुपितस्य पिषतः क्षतोमिकाकनकपरागपङ्किलम् । करद्वयं सपदि सुधन्वनो निजैरनारतस्रुतिभिरधाव्यताम्बुभिः॥८॥
परस्परमिति ॥ परिकुपितस्यातिक्रुद्धस्य अत एव परस्परं पिंपतः पीडयतः । करद्वयमित्यर्थः । सपदि सुधन्वनो राज्ञः क्षतानां पिष्टानामूर्मिकाणामङ्गुलीयकानां कनकपरागेण सुवर्णचूर्णेन पङ्किलं पङ्कवत् । पिच्छादित्वान्मत्वर्थीय इलप्रत्ययः । 'अङ्गुलीयकमूर्मिका' इत्यमरः । करद्वयं पाणियुग्मं निजैः करद्वयजन्यैरेवानारतस्रुतिभिरविरतस्रावैरम्बुभिः स्वेदोदकैरधाव्यताक्षाल्यत । 'धावु गतिशुद्ध्योः' इति धातोः कर्मणि लङ् । अत्रोर्मिकाणां करद्वयस्य च परागस्वपङ्किलत्वासंबन्धेऽपि संबन्धोक्तरतिशयोक्ती तयोः संकरः ॥ निरायतामनलशिखोज्वलां ज्वलन्नखप्रभाकृतपरिवेषसंपदम् । अविभ्रमद्भमदनलोल्मुकाकृति प्रदेशिनी जगदिव दग्धुमाहुकिः ९
निरिति ॥ आहुकिर्नाम राजा निरायतां प्रसारितां अनलशिखाग्निज्वाला तद्वदुज्वलां ज्वलन्तीभिनखप्रभाभिः कृता परिवेषसंपत्परिधिशोभा यस्यास्ताम् । अत एव भ्रमतोऽनलोल्मुकस्यालातस्येवाकृतिः संस्थानं यस्यास्ताम् । 'अङ्गारोऽलातमुल्मुकम्' इत्यमरः । प्रदेशिनी जगदग्धुमिवेत्युत्प्रेक्षा। अविभ्रमझमयति स । भ्रमेौँ चङ्। दूतसंतर्जनाय भाग्यमाणनखप्रभापटला तर्जनी जगद्दाहाय भ्राम्यमाणालातचक्रवदलक्ष्यतेत्यर्थः ॥ दुरीक्षतामभजत मन्मथस्तथा यथा पुरा परिचितदाहधार्यया । ध्रुवं पुनः सशरममुं तृतीयया हरोऽपि न व्यसहत वीक्षितुं दृशा १०
दुरीक्षतामिति ॥ मन्मथः प्रद्युम्नावतारः कामस्तथा दुरीक्षतां दुर्दर्शनत्वम् । ईक्षतेः खलन्तात्तलप्रत्ययः । अभजत । यथा हरोऽपि पुरा पूर्वजन्मनि परिचित.

Page Navigation
1 ... 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554