Book Title: Sishupal Vadha
Author(s): Durgaprasad Pandit, Sivadatta Pandit
Publisher: Pandurang Jawaji
View full book text
________________
अष्टादशः सर्गः।
४६१
वृत्तं युद्धे शूरमाश्लिष्य काचिद्रन्तुं तूर्णं मेरुकुचं जगाम । त्यक्त्वा नाग्नौ देहमेति स यावत्पनी सद्यस्तद्वियोगासमर्था ॥६०॥
वृत्तमिति ॥ काचिदमरनारी युद्धे वृत्तं मृतम् । 'वृत्तोऽतीते दृढे ख्याते वर्तुलेऽपि वृते मृते' इति विश्वः । शूरमाश्लिष्य रन्तुं तूर्ण मेरोः कुझं गह्वरं जगाम यावत्तद्वियोगासमर्था तद्विरहासहा पत्नी सद्योऽग्नी देहं त्यक्त्वा नैति स्म नाजगाम । अत्र मेरुकुासंबन्धेऽपि संबन्धोकेरतिशयोक्तिः ॥ त्यक्तप्राणं संयुगे हस्तिनीस्था वीक्ष्य प्रेम्णा तत्क्षणादुद्गतासुः । प्राप्याखण्डं देवभूयं सतीत्वादाशिश्लेष स्वेव कंचित्पुरंधी ॥६१॥
त्यक्तेति ॥ संयुगे युद्धे त्यक्तप्राणं कंचिद्वीरं हस्तिन्यां तिष्ठतीति हस्तिनीस्था करिणीमारूढा सती वीक्ष्य प्रेम्णा तत्क्षणादुद्गतासुर्गतप्राणा स्वैव पुरंध्री स्वभा. र्यैव सतीत्वात्पतिव्रतात्वादखण्डमक्षयं देवभूयं देवत्वम् । 'भुवो भावे' इति क्यप् । प्राप्याशिश्लेष । स्त्रीणां पातिव्रत्यमेव पतिसालोक्यनिदानं नाभिप्रवेशा. दिकमिति भावः । अत्र सतीत्वस्य विशेषणगत्या देवभूयहेतुत्वानुक्तेन काव्यलि. ङ्गम् । अतिशयोक्त्यादिकं तु यथासंभवमूह्यम् ॥ स्वर्गवासं कारयन्त्या चिराय प्रत्यग्रत्वं प्रत्यहं धारयन्त्या । कश्चिद्भेजे दिव्यनार्या परमिंल्लोके लोकं प्रीणयन्त्येह कीा ॥६२॥
स्वर्गवासमिति ॥ कश्चिद्वीरश्चिराय चिरकालं स्वर्गेवासम् । 'शयवासवासिप्वकालात्' इति विकल्पादलुक् । कारयन्त्या अनुभावयन्त्या अहन्यहनि प्रत्यहम् । 'नपुंसकादन्यतरस्याम्' इतव्ययीभाव समासान्तष्टचूप्रत्ययः। 'अव्ययानां भमात्रे टिलोपः' इत्युक्तम् । प्रत्यग्रत्वं नूतनत्वं धारयन्त्या । परप्रेमास्पदत्वादिति भावः । लोकं प्रीणयन्त्या अद्भुतत्वं प्रापयन्त्या । प्रीजो ण्यन्ताल्लटः शतरि डीप् 'धूप्री. जोर्नुग्वक्तव्यः' इति नुगागमः । दिव्यनार्या, परस्मिल्लोके इह लोके कीर्त्या च भेजे प्राप्तः। भजेः कर्मणि लिट्र । रणमरणाल्लोकद्वयमपि जिगायेत्यर्थः । अत्र दिव्याङ्गनाकीयोः प्रकृतयोरेव तुल्यधर्मसंबन्धात्केवलप्रकृतास्पदा तुल्ययोगिता ॥ गत्वा नूनं वैबुधं सम रम्यं मूर्छाभाजामाजगामान्तरात्मा । भूयो दृष्टप्रत्ययाः प्राप्तसंज्ञाः साधीयस्ते यद्रणायाद्रियन्ते ॥६३॥
गत्वेति ॥ मूर्छाभाजामन्तरात्मा जीवः रम्यं वैबुधं सद्म दिव्यभवनं गत्वा आजगाम मूर्छासमये सुरलोकरामणीयकं दृष्ट्वा आजगाम । नूनमुत्प्रेक्षायाम् । कुतः। यद्यस्मात्प्राप्तसंज्ञा लब्धबोधाः सन्तः दृष्टप्रत्ययाः दृढविश्वासाः भूयः पुनरपि साधीयो गा(बा)ढतरम् । गा(बा)ढादीयसुनि 'अन्तिकबाढयोनॆदसाधौ' इति साधादेशः । रणाय रणं कर्तुमाद्रियन्ते । उत्सेहिर इत्यर्थः । कर्तरि लट् श्यन्प्र. त्ययः । कथंचिदुज्जीवितानां पुनर्मुत्युप्राप्तिः श्रेयोदर्शनहेतुकेति भावः ॥
Page Navigation
1 ... 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554