Book Title: Sishupal Vadha
Author(s): Durgaprasad Pandit, Sivadatta Pandit
Publisher: Pandurang Jawaji
View full book text
________________
एकोनविंशः सर्गः।
४६९ कृत्वा शिनेः शाल्वचमं सप्रभावा चमूर्जिताम् ।
ससर्ज वक्रैः फुल्लाजसप्रभा वाचमूर्जिताम् ॥ ७॥ कृत्वेति ॥ प्रभावेण सह वर्तत इति सप्रभावा महानुभावा शिनेः सात्यकिपितामहस्य चमूः सेना। शाल्वो नाम चैद्यपक्षो राजा तस्य चमू सेनां जितां कृत्वा । जित्वेत्यर्थः । अत एव वर्मुखैः । 'येनाङ्गविकारः' इति तृतीया । विकासस्यापि विकारत्वात् । फुल्लाजस्य प्रफुल्लारविन्दस्य सप्रभा समानप्रभा । हर्षेण विकासितवत्रा सतीत्यर्थः । ऊर्जितामुदारां वाचं ससर्ज के यूयमसदन इत्याधुच्चैर्जगर्ज । जगादेत्यर्थः । उपमायमकयोः संसृष्टिः ॥
उल्मुकेन द्रुमं प्राप्य संकुचत्पत्रसंचयम् ।
तेजःप्रकिरता दिक्षु सप्रतापमदीप्यत ॥ ८॥ उल्मुकेनेति ॥ दिक्षु तेजः प्रभावं प्रकाशं च प्रकिरता विक्षिपता उल्मुकेन भागवतेन राज्ञा, अलातेन च संकुचन्ती पत्रसंपद्वाहनसंपत्पर्णसमृद्धिश्च यस्य तम् । सप्रतापं सपराक्रम, प्रकटतापसंहितं च । दुमं द्रुमाख्यं राजानं, वृक्षं च प्राप्यादीप्यत प्रजज्वले । भावे लङ् । अत्राभिधायाः प्रकृतार्थे नियत्रणादप्रकृतार्थप्रतीतिर्ध्वनिरेव न श्लेषः ॥
पृथोरध्यक्षिपद्रुक्मी यया चापमुदायुधः।
तयैव वाचापगमं ययाचापमुदा युधः॥९॥ पृथोरिति ॥ रुक्मी भीष्मकात्मजो रुक्मिणीभ्राता उदायुध उद्यतायुधः सन् यया वाचा पृथो राज्ञश्चापमध्यक्षिपत् धिगिदं वृथा कष्टमिति निनिन्द । अपगता मुद्यस्यास्तयापमुदा निरुत्साहया तयैव वाचा युधो युद्धादपगममपसरणं ययाच । मां त्राहि पलायमानं शरणागतोऽस्मीति प्रार्थयामासेत्यर्थः । याचिरुभयपदी ॥
समं समन्ततो राज्ञामापतन्तीरनीकिनीः ।
काणिः प्रत्यग्रहीदेकः सरस्वानिव निम्नगाः ॥१०॥ सममिति ॥ समं युगपत्समन्तत आपतन्तीरागच्छन्ती राज्ञां चैद्यपक्षाणामनीकिनीः सेनाः । कृष्णस्यापत्यं पुमान्काणिः प्रद्युम्नः 'अत इञ्' । निम्नगा नदी सरस्वान्समुद्र इवैकोऽसहायः प्रत्यग्रहीत्प्रत्यवरुरोध ॥
दधानैर्घनसादृश्यं लसदायसदंशनैः।
तत्र काञ्चनसच्छाया ससृजे तैः शराशनिः॥ ११ ॥ दधानैरिति ॥ लसन्ति आयसान्ययोमयानि दंशनानि वर्माणि येषां तैः । "तनुत्रं वर्म दंशनम्' इत्यमरः । अत एव घनसादृश्यं कायान्मेघसाम्यं दधा. नैस्तैः सैनिकैः तत्र काष्णो काञ्चनसच्छाया सुवर्णवर्णा शर एवाशनिः विद्युत्स
४० शिशु
Page Navigation
1 ... 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554