Book Title: Sishupal Vadha
Author(s): Durgaprasad Pandit, Sivadatta Pandit
Publisher: Pandurang Jawaji
View full book text
________________
४३०
शिशुपालवधे
'वर्णादनुदात्तात्तोपधात्तो नः' इति विकल्पान्ङीष् तकारस्य च नकारः। तनुं वपु. दधत्प्रसेनजिन्नाम राजा गैरिकारुणो धातुरक्तो गज इवाभूत् । तद्वदलक्ष्यतेत्यर्थः॥ सकुङ्कुमैरविरलमम्बुविन्दुभिर्गवेषणः परिणतदाडिमारुणैः । स मत्सरस्फुटितवपुर्विनिःसृतैर्बभौ चिरं निचित इवासृजां लवैः१४ ___ सकुङ्कमैरिति ॥ स प्रसिद्धो गवेषणो नाम राजा सकुङ्कुमैः सर्वाङ्गीणकश्मीरजलेपरित्यर्थः । अत एव परिणतदाडिमारुणैः परिपक्वदाडिमबीजरक्तैरम्बुबिन्दुभिः । क्रोधसात्त्विकैः स्वेदबिन्दुभिरित्यर्थः । मत्सरेणान्तःसंभृतेनात्युत्कटवैरेण स्फुटितान्निभिन्नाद्वपुषो विनिःसृतैरसृजां लवैरसृग्विन्दुभिरविरलं निरन्तरं निचितो व्याप्त इव चिरं बभौ । उत्प्रेक्षा ॥ ससंभ्रमं चरणतलाभिताडनस्फुटन्महीविवरवितीर्णवर्त्मभिः । रवेः करैरनुचिततापितोरगं प्रकाशतां शिनिरनयद्रसातलम् ॥१५॥ . ससंभ्रममिति ॥ शिनिः सात्यकेः पितामहः ससंभ्रमं ससत्वरं चरणतला. भिताडनेन पादतलाभिघातेन स्फुटन्त्या दलन्त्या मह्या विवरैश्छिट्टैर्वितीर्णवर्मभिर्दत्तमार्गः । तत्प्रसरणैरित्यर्थः । रवेः करैरनुचितं पूर्वमपरिचितमिदं यथा तथा तापिताः संतापं गमिता उरगा यसिंस्तत् रसातलं प्रकाशतां प्रकटत्वमनयत् । अत्र महीरविकरोरगरसातलानां क्रमेण स्फुटनान्तःप्रवेशताप्रकाशनैरसंबन्धेऽपि संबन्धोक्तेरतिशयोक्तिः। पादाहननैरमानुषी तीव्रतां ब्रजति स्मेति ध्वनिः ॥ प्रतिक्षणं विधुवति शारणे शिरः शिखिद्युतः कनककिरीटरश्मयः। अशङ्कितं युधमधुना विशन्त्वमी क्षमापतीनिति निरराजयन्निव१६
प्रतीति ॥ शारणे नाम राज्ञि प्रतिक्षणं शिरो विधुवति क्रोधात्कम्पयति सति । धुवस्तौदादिकालटः शत्रादेशः 'अचि क्षुधातु-' इत्यादिनोवङादेशः । शिखिवयोतन्त इति शिखिद्युतोऽग्निप्रभाः। विप् । कनककिरीटरश्मयो नीराजनकर्तारः अमी भूपाः अधुना अशङ्कितं निःशकं युधमाजिम् । 'समित्याजिसमिधुधः' इत्यमरः । विशन्त्विति क्षमापतीन्निरराजयन्निव नीराजयन्ति स्मेवेत्युत्प्रेक्षा । 'नीराजनात्स्याद्विजय' इत्यागमः ॥ दधौ चलत्पृथुरसनं विवक्षया विदारितं विततवृहद्भुजालतः । विदूरथः प्रतिभयमास्सकंदरं चलत्फणाधरमिव कोटरं तरुः ॥१७
दधाविति ॥ वितते विस्तृते बृहत्यौ भुजे लते इव यस्य स विदूरथो नाम राजा। विवक्षया किमपि वक्तुमिच्छया विदारितं व्यात्तं अत एव चलन्ती पृथुर्महती रसना जिह्वा यस्मिंस्तम् । 'रसज्ञा रसना जिह्वा' इत्यमरः । प्रतिभयं भयंकरमास्यं कंदर इवास्यकंदरस्तम् । 'दरी तु कंदरो वा स्त्री' इत्यमरः । चलन्फणाधरः फणी यस्मिंस्तत्कोटरमिव । 'निष्कुहः कोटरं वा ना' इत्यमरः । दधौ । श्रौती पूर्णोपमा ॥

Page Navigation
1 ... 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554