Book Title: Sishupal Vadha
Author(s): Durgaprasad Pandit, Sivadatta Pandit
Publisher: Pandurang Jawaji
View full book text
________________
४४०
शिशुपालवधे एव विबभ्रमुर्नोत्पेतुरिति भावः । अत्रोद्धतानामधोभ्रमणविरोधस्योपरिनिर्गमरो. धेन विशेषणगत्या परिहारात्काव्यलिङ्गसंकीर्णो विरोधाभासोऽलंकारः॥ गरीयसः प्रचुरमुखस्य रागिणो रजोऽभवब्यवहितसत्त्वमुत्कटम् । सिसृक्षतः सरसिजजन्मनो जगदलस्य तु क्षयमपनेतुमिच्छतः ५४
गरीयस इति ॥ गरीयसः सर्वलोकपितामहत्वात्पूज्यतरस्य, अन्यत्र महत्तरस्य प्रचुरमुखस्य । चतुर्मुखस्येत्यर्थः । अन्यत्र बहुप्रवाहस्य रागिणो रक्तवर्णस्य, अन्यत्र रणे रागिणोऽनुरागवतः एवंभूतस्य सरसिजजन्मनो ब्रह्मणो जगत्सिसृक्षतः जगत्स टुमिच्छतः सतः । सृजेः सन्नन्तालटः शत्रादेशः । व्यवहितसत्त्वं तिरस्कृतसत्वगुणकं, अन्यत्र तिरोहितजन्तुकं रजो रजोगुणो रेणुश्चोत्कटमुद्रिक्तमभवत् । बलस्य सैन्यस्य तु जगत्क्षयमपनेतुमिच्छतः सतोऽभवत् । अत्र ब्रह्मबलयोर्गरीयस्त्वादिसाधयेऽपि रजःशब्देनैकस्य सिसृक्षोरन्यस्य संजिहीर्षोरिति व्यतिरेकः श्लेषोत्थापित इति संकरः ॥ पुरा शरक्षतिजनितानि संयुगे नयन्ति नः प्रसभमसृञ्जि पङ्कताम् । इति ध्रुवं व्यलगिपुरात्तभीतयः खमुच्चकैरनलसखस्य केतवः॥५५॥
पुरेति ॥ संयुगे युद्धे सति शरक्षतिजनितानि क्षतजानि असृद्धि रुधिराणि नोऽस्मान्प्रसभं प्रसह्य पङ्कता पुरा नयन्ति नेष्यन्ति । 'यावत्पुरानिपातयोर्लट' इति भविष्यदर्थे लट् । इतीत्थमालोक्य ध्रुवमात्तभीतयः प्राप्तभयाः सन्तोऽन. लसखस्याग्निमित्रस्य वायोः केतवो रेणवः । तल्लिङ्गत्वात्तस्येति भावः। उच्चकैरुन्नतं खमाकाशं व्यलगिषुः । वियदारूढा इत्यर्थः । ध्रुवमित्युत्प्रेक्षायाम् ॥ क्वचिल्लसद्धननिकुरम्बकधुरः क्वचिद्धिरण्मयकणपुञ्जपिञ्जरः। कचिच्छरच्छशधरखण्डपाण्डुरः खुरक्षतक्षितितलरेणुरुद्ययौ ॥५६॥
क्वचिदिति ॥ क्वचिल्लसन्धननिकुरम्बवन्नवाभ्रपटलवत्कर्बुरः शबलः । क्वचिद्धिरण्मयकणपुञ्जपिञ्जरः कनकचूर्णराशिकपिशः । कचिच्छरच्छशधरखण्डपाण्डुरः खुरैः क्षतस्य क्षितितलस्य रेणुरुद्ययौ उज्जगाम । अत्रोपमात्रयस्य संसृष्टिः ॥ महीयसां महति दिगन्तदन्तिनामनीकजे रजसि मुखानुषङ्गिाणि । विसारितामजिहत कोकिलावलीमलीमसा जलदमदाम्बुराजयः५७
महीयसामिति ॥ महति अनीकजे सेनासमुत्थे रजसि महीयसां दिगन्ता एव दन्तिनः तेषां मुखानि पुरोभागा एव मुखान्याननानीति श्लिष्टरूपकम् । तेष्वनुषङ्गिणि लग्ने सति । कोकिलावलीवन्मलीमसा मलिना जलदा दिङ्मुखसङ्गिन एव ये मेघास्त एव मदाम्बुराजयो मदरेखाः विसारितां प्रसृमरत्वमजिहता. गच्छन् । प्राप्ता इत्यर्थः । पांशुपातस्य दन्तिनां मदहेतुत्वादिति भावः । तदुक्तं
१ समुन्नमद्धन-' इति पाठः. २ 'बहुल' इति पाठः.
Page Navigation
1 ... 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554