Book Title: Sishupal Vadha
Author(s): Durgaprasad Pandit, Sivadatta Pandit
Publisher: Pandurang Jawaji

View full book text
Previous | Next

Page 460
________________ ४४८ शिशुपालवधे 'द्वितीयायां च' इति णमुल्प्रत्ययः । हेतीः शस्त्राणि हित्वा त्यक्त्वा । वैकल्यादिति भावः । 'हेतिस्तु शस्त्रे द्वयोः' इति केशवः । मल्लवन्मल्लाभ्यां तुल्यम् । 'तेन तुल्यम्-' इति वतिप्रत्ययः । मुष्टिघातं मुष्टिभिर्हत्वा । 'करणे हनः' इति णमुलनत्ययः । नन्तौ प्रहरन्तौ । हन्तेर्लटः शत्रादेशः । कषादित्वादनुप्रयोगः । मुष्टिभि न्तावित्यर्थः । बाहुभ्यां बाहुभ्यां प्रहृत्य प्रवृत्तमिदं युद्धं वाहूबाहवि बाहुयुद्धम् । 'तत्र तेनेदमिति सरूपे' इति बहुव्रीही 'इच्कर्मव्यतिहारे' इतीच्प्रत्ययः समासान्तः । 'अन्येषामपि दृश्यते' इति दीर्घः । तिष्टगुप्रभृतिषु पाठादव्ययीभावत्वादव्ययत्वम् । तत्र व्यासृजेतां व्यासक्तवन्तौ । 'कर्तरि कर्मव्यतिहारे' इत्यात्मनेपदम् । मल्लवमिति तद्धितगा श्रौती पूर्णोपमा ॥ शुद्धाः सङ्गं न क्वचित्प्राप्तवन्तो दूरान्मुक्ताः शीघ्रतां दर्शयन्तः । अन्तःसेनं विद्विषामाविशन्तो युक्तं चक्रुः सायका वाजितायाः १३ शुद्धा इति ॥ शुद्धा निर्विषाः । 'न कर्णिभिर्नापि दग्धैर्नाग्निज्वलिततेजनैः' इति निषेधादिति भावः। अन्यत्र जात्येत्यर्थः । क्वचित्कुत्रापि सङ्गं प्रतिबन्धं न प्राप्तवन्तः न प्राप्ताः । दुर्वारा इत्यर्थः । दूरान्मुक्ता दूरत एव विसृष्टाः । 'स्तोकान्तिकदूरार्थकृच्छ्राणि क्तेन' इति समासः । ‘पञ्चम्याः स्तोकादिभ्यः' इत्यलुक् । शीघ्रतां जवनत्वं दर्शयन्तः । विद्विषां सेनास्वन्तः अन्तःसेनम् । विभक्त्यर्थे - व्ययीभावः । आविशन्तः । सेनामध्यं प्रविशन्त इत्यर्थः । सायका बाणाः वाजितायाः पक्षवत्तायाः अश्वत्थस्य च । 'वाजो निःस्वनपक्षयोः' इति विश्वः । युक्तमनुरूपं कर्म चक्रुः । एवंविधसेनाप्रवेशस्य वाजिनामेव संभवादिति भावः । अत्राभिधायाः प्रकृतपक्षतामात्रोपक्षीणत्वाद्वाजिताशब्देन प्रकृतस्यैव प्रतीतेः ध्वनिरेवेति न श्लेषावकाशः । किंतु शुद्धादिपदार्थपुञ्जविशेषणगत्या सायकानां युक्तकारिताहेतुत्वात्पदार्थहेतुकं काव्यलिङ्गम् ॥ आक्रम्याजेरग्रिमस्कन्धमुच्चैरास्थायाथो वीतशङ्कं शिरश्च । हेलालोला वर्त्म गत्वातिमत्र्य द्यामारोहन्मानभाजः सुखेन ॥१४॥ आक्रम्येति ॥ मानभाजोऽभिमानवन्तः । उच्चैरुन्नतं आजेयुद्धस्याग्रिमस्कन्धमग्रभागमंसप्रदेशं चाक्रम्यारुह्य वीतशकं शिरःसंमुखमुत्तमकायं चास्थायारुह्य हेलासु युद्धक्रीडासु, लीलासु च लोला उत्सुकाः सन्तः अतिमत्यं वर्म गत्वा । अमानुषं युद्धं कृत्वेत्यर्थः । अन्यत्रामानुपगम्यमारोहणमार्ग गत्वा सुखेनानायासेन द्यां स्वर्गमभ्रंकषं गिरिशिखरादि क्रीडास्थानम् । 'द्यौः स्वर्गसुखवफ्नोः ' इति विश्वः । आरोहन्नारूढाः 'युध्यमानाः परं शक्त्या स्वर्ग यान्त्यपराङ्मुखाः' इति मनुस्मरणादिति भावः । यथाकथंचित्कश्चित्स्कन्धमूर्धारोहणक्रमेण किंचिदुरारोहमद्रितटादिकमारोहति तद्वदिति प्रतीतेर्विशेषणमहिम्नागता समासोक्तिः ॥ रोदोरन्ध्र व्यश्नुवानानि लोलैरङ्गस्यान्तापितैः स्थावराणि । केचिद्गुर्वीमेत्य संयन्निषद्यां क्रीणन्ति स प्राणमूल्यैर्यशांसि ॥१५॥

Loading...

Page Navigation
1 ... 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554