Book Title: Sishupal Vadha
Author(s): Durgaprasad Pandit, Sivadatta Pandit
Publisher: Pandurang Jawaji
View full book text
________________
पञ्चदशः सर्गः।
क्षणमिति ॥ असौ चैद्यः पथि किमिदमिति मिथः जल्पता कोऽयमनर्थः संवृत्त इति परस्परमालपता जनेन क्षणमीक्षितः सन् शिबिरं स्वकटकं प्राप्याविशङ्किमना निःशङ्कचित्तः द्रुतं शीघ्रमनीकिनी सेनां समनीनहत्संनाहयति स्म। नह्यतेः संपूर्वकाल्लुङि ‘णौ चड्युपधाया ह्रस्वः' अभ्यासदीर्घश्च । शिबिरं शकटमिति केचित् । एतेनास्य रौद्रस्थायिनः कोपस्य प्ररूढत्वं वेदितव्यम् ॥ त्वरमाणशालिकसवेगवदनपवनाभिपूरितः। शैलकटकतटभिन्नरवः प्रणनाद सांनहनिकोऽस्य वारिजः॥७२॥
त्वरमाणेति ॥ शङ्खः शिल्पमस्येति शाङ्खिकः । तदस्य शिल्पम्' इति ठक् । स्वरमाणस्य जवमानस्य शाङ्खिकस्य यः सवेगो वदनपवनो मुखमारुतः तेनाभिपूरितः प्रध्मातः शैलानां कटकतटेषु नितम्बप्रदेशेषु भिन्नरवो मूछितप्रतिध्वनिरस्य चैद्यस्य संबन्धि संनहनं प्रयोजनमस्येति सानहनिकः । योधानां रणसंनाहप्रवर्तक इत्यर्थः। तदस्य प्रयोजनम्' इति ठक् । वारिजः शङ्खः । 'वारिजः शङ्खपद्मयोः' इति विश्वः । प्रणनाद दध्वान । संनहनशङ्ख दध्मावित्यर्थः । 'उपसर्गादसमासेऽपि णोपदेशस्य' इति णत्वम् । एतेनास्य महानुत्साहो वीररसस्थायी व्यज्यते ॥ जगदन्तकालसमवेतविषदविषमेरितारवम् । धीरनिजरवविलीनगुरुप्रतिशब्दमय रणतूर्यमावधि ॥ ७३ ॥
जगदिति ॥ जगदन्तकाले कल्पान्ते समवेता मिलिता ये विषदास्तोयदाः पुष्करावर्तकादयो मेघाः । 'विषं तु गरले तोये' इति विश्वः । तैर्विषमं दारुणं यथा तथेरित उत्पादितो य आरवः स इवावरो यस्य तत् । धीरे गम्भीरे निजरवे विलीना अन्तर्गता गुरवः प्रतिशब्दाः शब्दान्तराणि यस्य तत् । अस्य चैद्यस्य रणतूर्य रणदुन्दुभिरावधि आहतम् । आहन्तेः कर्मणि लुङ्। 'आत्मनेपदेष्वन्यतरस्याम्' इति हनो वधादेशः । अत्राप्युत्साहो व्यज्यते । उपमालंकारः ॥
सहसा ससंभ्रमविलोलसकलजनतासमाकुलम् । स्थानमगमदथ तत्परितश्चलितोडुमण्डलनभःस्थलोपमाम् ॥७४॥
सहसेति ॥ अथ रणदन्दभिताडनानन्तरं सहसा झटिति ससंभ्रमं सव्यग्रं यथा तथा विलोलया चलन्त्या सकलया समग्रया जनतया जनसमूहेन समाकुलं संकीर्णं तत्स्थानं परितश्चलितं प्रस्थितमुडुमण्डलं ज्योतिश्चक्रं यस्मिंस्तस्य नभः. स्थलस्योपमां सादृश्यमगमत् । अत्रोडुमण्डलस्य चलनासंबन्धेऽपि संभावनया तत्संबन्धोक्तेरतिशयोक्तिः । उपमा तु तदुजीविता प्रतीतिमात्रसारा तदङ्गम् । तत्रैव चमत्कारस्फुरणात् । 'पुष्पं प्रवालोपहितं यदि स्यात्' इत्यादिवत् ॥ दधतो भयानकतरत्वमुपगतवतः समानताम् । धूमपटलपिहितस्य गिरेः समवर्मयन्सपदि मेदिनीभृतः ॥ ७५ ॥

Page Navigation
1 ... 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554