________________
Shri Mahavir Jain Aradhana Kendra
श्राद्धदिन०
॥११३॥
www.kobatirth.org
अनन्तपरमाणुसङ्घातसंघटितमहाप्रमाणस्तम्भत्रिदशसंचूर्णितविभक्ततत्परमाणुसमाहारपुनस्तत्प्रमाणस्तम्भनिष्पादनवच्चे
ति दृष्टान्ताः १० ||३| अनेकजात्यन्तरप्राप्तिलक्षणबह्वन्तरायान्तरितं मानुषं जन्मेत्युपनयः ४ । तस्माद् दुर्लभं मनु| ष्यजन्मेति निगमनम् ५ । तथा मनुष्यत्वलाभेऽपि दुर्गतिप्रसृतजन्तुधरणाद्धर्मः सर्वज्ञदेशितो जीवस्य श्रोतुमपि दुर्लभ इति प्रतिज्ञा १ । आलस्यादिबह्वन्तरायान्तरितत्वादिति हेतुः २ । तथा चागमः
'आलस्स १ मोह २ वन्ना ३, थंभा ४ कोहा ५ पमाय ६ किवणत्ता ७ । भय ८ सोगा ९ अन्नाणा १०, वक्खेव ११ कोउहला १२ रमणा १३ ||१||
एहि कारणेहिं, लघूण सुदुल्लहंपि माणुस्सं । न लहइ सुइं हियकरिं, संसारुतारणं जीवो ॥२॥ अत्रापि दृष्टान्तास्त एव । ३ । उपनयनिगमनेऽपि प्राग्वदायोज्ये ४५ । तथा मनुष्यत्वजिनधर्मप्राप्तावपि साधुसाधर्मिकाणां पुनः सामग्री अतीव दुर्लभेति प्रतिज्ञा १ | दुःषमादोषेण धार्मिकजनानां स्वल्पत्वादिति हेतुः २ । उक्तं च'दूरे ता चारिती तहाविहा लिंगिनो न सव्वत्थ । संपइ सम्मद्दिट्ठी वि दुल्लहो सुत्तनिद्दिट्ठो ॥१॥ दृष्टान्तादि पूर्ववदिति श्लोकार्थः ॥ २१५ ॥
ततश्च यावदिति सामग्री समग्राऽप्यस्ति तावद्धर्म एव यत्नो विधेयः । यतःचलं जीयं धणं धन्नं, बंधुमित्तसमागमो ।
खणेण ढुक्क वाही, ता पमाओ न जुत्तओ || २१६ ॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
सूत्रम्
॥११३॥