Book Title: Shraddhdin Krutya Sutram
Author(s): Rajshekharsuri
Publisher: Arihant Aradhak Trust

View full book text
Previous | Next

Page 162
________________ Shri Mahavir Jain Aradhana Kendra श्राद्धदिन० 1198911 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चलिते निर्बलत्वादेष राजा बहुसैन्यत्वाद् बलवता मालवीयनृपेण पराजेष्यते इति विभाषणेनोक्ते पूर्जनो दिशोदिशं पलायितः । शत्रुमर्दननृपश्च वैरिणं जित्वा नगरं प्रत्यागतः । उद्वसं दृष्ट्वा जने नन्तुमागते मूलशुद्ध्या बिभाषणस्य जिह्वां चिच्छेद । स च मृत्वा नरकं प्रापत् । एवं सर्वासु कथासु निन्दाद्वारेणापि विकथात्वमवसेयम् । आदिशब्दात् सुतजन्मनामकरणमुण्डनलेखशालाप्रक्षेपणविवाहोत्सवादिका नगनगरप्रासादोद्यानवापीकूपप्रपासरः सरित्समुद्रकथा अपि निःप्रयोजनं न वक्तव्याः । एतत्करणे च स्वपरात्मनोरवश्यं रागद्वेषसंभवात्तद्गतसावद्यानुमोदनेन तदन्यथावादिभिः सह विरोधसंभवेन च धर्मार्थयोर्हानिप्रसक्तेरित्यादि प्रमादाचरितमिति । एतस्माच्च प्रायः खचरत्वनरेन्द्रत्ववैरिघातचि न्तादिरूपपापध्यानसंभवोऽतस्तदपि निषिद्धमेवेति गाथार्थः ॥ २६५॥ हिंस्त्रप्रदानपापोपदेशावऽभिधित्सुराहआउह अग्गिदाणं, विसदाणं संजुयाहिगरणं च । खित्ताणि कसह गोणे, दमह एमाइ उवएसं ॥ २६६ ॥ व्याख्या-'आउह०' सुगमः || २६६ ॥ अपि च अन्नं चिय सावज्जं, पढमं सड्ढ़ेण नेव कायव्वं । जं दट्ठूण पट्टइ, आरंभे सयललोओ वि ॥ २६७॥ व्याख्या- 'अन्नं चिय साव० ' अन्यदपि सावद्यमासन्नपर्वणि स्वगृहलेपनधवलनादि न कार्यम् । शेषं स्पष्टार्थम् ||२६७|| उक्तो यावत्कथिकः श्रावकधर्मोपदेशः । साम्प्रतं प्रतिदिनोपयोगियतनोपदेशमाह For Private and Personal Use Only सूत्रम् 1198911

Loading...

Page Navigation
1 ... 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218