Book Title: Shraddhdin Krutya Sutram
Author(s): Rajshekharsuri
Publisher: Arihant Aradhak Trust

View full book text
Previous | Next

Page 194
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुत्रम श्राद्धदिन० ॥१७३॥ Loooooooo रागो ४ दोसो ५ मइब्मंसो ६ धम्ममि अणायरो ७ ।जोगाणं दुप्पणीहाणं ८ अट्टहा वज्जियवओ ॥२॥ इत्युक्तप्रमादजनितमतिचारजातं न विवर्जयामीति द्वारम् २७ । ।३२४|| अष्टाविंशं धर्माचार्यस्मरणद्वारमाह जीवे नो वहई जो उ, बायरे सुहमे तहा । अलियं च भासए नेव, अदत्तं नेव गिन्हए ॥३२५।। व्याख्या-'जीवे नो वह०' जीवान्नो हन्ति यस्तु बादरान् सूक्ष्मांस्तथा । वधस्तु चतुर्धा-द्रव्यतः षट्स जीवनिकायेषु । क्षेत्रतः सर्वलोके । कालतो दिवा रात्रौ वा | भावतो रागेण वा दोसेण वा, मनसा वाचा कायेन कृतकारितानुमतिभिश्च । एवं च सर्वजीवानां सर्ववधनिषेधेन प्रथममहाव्रतधारक इत्यर्थः १ । तथा अनीकं च भाषते नैव । तत्रालीकं चतुर्धा-सद्भावनिषेधः नास्त्यात्मेत्यादि । असद्भावोद्भावना अङ्गुष्ठपर्वमात्रः श्यामाकतन्दुलमात्रो वा सकलजगद्व्यापी जीव इत्यादि २ । अर्थान्तरोक्तिः गामश्वं वदतः ३ । गर्दा परदोषोद्घट्टनम् ४ । एतच्च द्रव्यतः सर्वद्रव्येषु । क्षेत्रतो लोकालोकयोः । कालतो दिवा रात्रौ च । भावतो रागेण वा मायालोभलक्षणेन, मायया ग्लानत्वादिमिषैर्न कृत्येषु वर्तनम् । लोभेन मिष्टान्नलाभे सतीतरस्य शृद्धस्याप्यनेषणीयत्वभणनम् । द्वेषेण च क्रोधमानलक्षणेन । क्रोधेन त्वं दास इत्यादिभणनम् , मानेनाबहुश्रुतोऽपि बहुश्रुतोऽहमित्यादिभणनम् । भयहास्यादीनामप्येतयोरेवान्तर्भावः । एतदपि त्रिविधं त्रिविधेनापि २॥ तथा अदत्तं नैव गृहणाति । तच्चतुर्धा-स्वाम्यदत्तं यत्स्वामिनाऽननुज्ञातं, जीवादत्तं सचित्ताभ्यवहारः, तीर्थक ODOOogbodoodbodoodbodoodoodbodoodoodoodoodoock TTTTTTTT acbodoodoodoochoodoodbodbodoor ნინიიიიიიიიიიიიიიიიიიიი ||१७३॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218