Book Title: Shraddhdin Krutya Sutram
Author(s): Rajshekharsuri
Publisher: Arihant Aradhak Trust

View full book text
Previous | Next

Page 204
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रम् श्राद्धदिन० ||१८३॥ H ताणं सुलद्धं खलु माणुसत्तं, जाईकुलं धम्मरहस्ससारं । अप्पेण अप्पं पडिलेहइत्ता, समं पयट्टंति जे मुक्खमग्गे ॥३३६।। व्याख्या-'ताणं सुलद्धं०' तेषां सुलब्ध मनुष्यजन्म यतस्तेषामेतत्फलप्राप्तेः, एवं जातिकुले अपि तेषामेव, विद्वद्रिस्तयोः श्लाघ्यत्वात् । तथा धर्मः श्रुतधर्मस्तस्य रहस्यं चरणं तदेव सारं तेषामेव सुलब्धं विशिष्टकर्मक्षयहेतुत्वात् । ये किमित्याह-'अप्पे०' आत्मना- विषयकषायान्ध्यरहितेन परमार्थदर्शिनान्तरात्मनेत्यर्थः । 'अप्पं ति आत्मानंविषयकषायविषवेगविधूरितमिन्द्रियात्मानमिह परस्त्र च महादुःखभाजनम् । यथा 'एकैकविषयनष्टा, मृगशलभभुजङ्गमीनमत्तगजाः । किं पुनरनियमितात्मा, जीवः पञ्चेन्द्रियवशातः ।।१।। क्रोधात् प्रीतिविनाशं, मानाद्विनयोपघातमाप्नोति । शाठ्यात्प्रत्ययहानि, सर्वगुणविनाशनं लोभात् ।।२।।' परत्र तु एवं- विषयकषायैर्बद्धवा प्रतिसमयमशुभकर्मभरं दुर्गतिगतोऽयमात्मा छेदनभेदादि बहु सहते । इत्येवं प्रत्युपेक्ष्य- विचार्य सम्यग-अशठतया प्रवर्तन्ते ये- केचन लघुकर्माणो मोक्षमार्गे-ऽक्षुद्रतादिरूपे । उक्तं च अक्षुद्रता दया दाक्ष्यं, क्षमा चाक्षविनिग्रहः । न्यायानुवृत्तिरनघा, यत्नच श्रुतशीलयोः ।।१।। समानधर्मवात्सल्यं, यतिधर्मादरः सदा । इत्यादिकुशलारंभो, मुक्तिमार्गतया मतः ।।२।।' इति ॥३३६।। एवं विहाणेण पयट्टमाणा, सुसावया सासणभत्तिमंता। अणेगजम्मंतरसंचिअं अघं, खवित्तु गच्छंति गई सुउत्तमं ॥३३७॥ ||१८३॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218