________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रम्
श्राद्धदिन० ||१८३॥
H
ताणं सुलद्धं खलु माणुसत्तं, जाईकुलं धम्मरहस्ससारं ।
अप्पेण अप्पं पडिलेहइत्ता, समं पयट्टंति जे मुक्खमग्गे ॥३३६।। व्याख्या-'ताणं सुलद्धं०' तेषां सुलब्ध मनुष्यजन्म यतस्तेषामेतत्फलप्राप्तेः, एवं जातिकुले अपि तेषामेव, विद्वद्रिस्तयोः श्लाघ्यत्वात् । तथा धर्मः श्रुतधर्मस्तस्य रहस्यं चरणं तदेव सारं तेषामेव सुलब्धं विशिष्टकर्मक्षयहेतुत्वात् । ये किमित्याह-'अप्पे०' आत्मना- विषयकषायान्ध्यरहितेन परमार्थदर्शिनान्तरात्मनेत्यर्थः । 'अप्पं ति आत्मानंविषयकषायविषवेगविधूरितमिन्द्रियात्मानमिह परस्त्र च महादुःखभाजनम् । यथा
'एकैकविषयनष्टा, मृगशलभभुजङ्गमीनमत्तगजाः । किं पुनरनियमितात्मा, जीवः पञ्चेन्द्रियवशातः ।।१।। क्रोधात् प्रीतिविनाशं, मानाद्विनयोपघातमाप्नोति । शाठ्यात्प्रत्ययहानि, सर्वगुणविनाशनं लोभात् ।।२।।'
परत्र तु एवं- विषयकषायैर्बद्धवा प्रतिसमयमशुभकर्मभरं दुर्गतिगतोऽयमात्मा छेदनभेदादि बहु सहते । इत्येवं प्रत्युपेक्ष्य- विचार्य सम्यग-अशठतया प्रवर्तन्ते ये- केचन लघुकर्माणो मोक्षमार्गे-ऽक्षुद्रतादिरूपे । उक्तं च
अक्षुद्रता दया दाक्ष्यं, क्षमा चाक्षविनिग्रहः । न्यायानुवृत्तिरनघा, यत्नच श्रुतशीलयोः ।।१।। समानधर्मवात्सल्यं, यतिधर्मादरः सदा । इत्यादिकुशलारंभो, मुक्तिमार्गतया मतः ।।२।।' इति ॥३३६।।
एवं विहाणेण पयट्टमाणा, सुसावया सासणभत्तिमंता। अणेगजम्मंतरसंचिअं अघं, खवित्तु गच्छंति गई सुउत्तमं ॥३३७॥
||१८३॥
For Private and Personal Use Only