________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रम्
श्राद्धदिन० ||१८४||
व्याख्या-'एवं विहाणेण० गतार्था, नवरं 'सुउत्तमं ति इन्द्रेन्द्रसामानिकत्वादिलक्षणां सुलभबोधिकामुत्कतोऽप्यासप्ताष्टभवान्मुक्तिपदप्राप्तिलक्षणां चेति ।।३३७|| साम्प्रतं सूत्रकारः स्वसमयपरसमयपरिज्ञानावदातमतिरपि छद्मस्थस्य स्खलितसंभवात् तदपनोदार्थं स्वोत्सेकपरिहारार्थं च सूत्रद्वयमाह
अन्नाणेणं पमाएणं, मूढयाए तहेव य । जं मे विरइयं किंचि, आगमस्स विरुद्धयं ||३३८| तं पुत्तदुच्चरियं व, मज्झ सोहिंतु सूरिणो ।
दयं उवरि काऊणं, जं जं इत्थ असुद्धयं ||३३९।। व्याख्या-'अन्नाणेणं पमाएणं०' 'तं पुत्त दुच्चरियं व मज्झ सोहिंतु सूरिणो०' अज्ञानेन- केषाञ्चिद् भावानां सूक्ष्मत्वात् तथाविधाम्नायाभावाच्च सम्यगनवबोधेन । तथा प्रमादेन- अन्यचित्तत्वादिना । तथा मूढतयामतिविभ्रमात् चित्तमोहेन । तथैव चेति समुच्चये । यन्मया विरचितं-सूत्रतया ग्रथितं किश्चित् स्तोकमप्यागमस्य विरुद्धकमागमोत्तीर्णमागमाननुपातीत्यर्थः
तत् पुत्रदुश्चरित्रमिव , यथा हि-किल प्रियसुतेन किञ्चिद्वस्तुजातमीषद्दोषदुष्टमपि विहितमवलोक्य पितरौ तत्समारयतः । एवमिहापि ममोपरि दयां कृत्वा शोधयन्तु सूरयो यद् यदत्राशुद्धकमिति सूत्रद्वयार्थः ।।३३८||-||३३९।।
यथैतत् सूत्रप्रणयनमकारि तथाविर्भावयन्नाह
00000000000000000000000000000000cocoa
||१८४||
c ococoanadood
For Private and Personal Use Only