________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रम्
श्राद्धदिन० 11१७७॥
TIT
Too..oo..oo..oo..oooooooooooooooooooooooooooooooo
विडमुडभेइमं लोणं, तिल्लं सप्पिं च फाणियं । न ते संनिहिमिच्छंति, नायपुत्तवओरया ।।१।। लोभस्सेस अणुप्फासो, मन्ने अन्नयरामवि । जे सया संनिहीकामे, गिही पब्वइए न से ||२|| ||३२८॥
उक्ता मूलगुणाः । साम्प्रतमुत्तरगुणावसरस्ते च पिण्डविशुद्ध्यादयः । तत्रापि सर्वगुणाधारदेहपरिपालकत्वेन पिण्डस्यैव प्राधान्यान्नवकोटीद्वारेण तद्विशुद्धिमाह
न किणे न किणावेई, न हणे न हणावइ ।
उज्जुत्तो संजमे जो उ, सवारंभविवज्जए ||३२९।। व्याख्या-'न किणे न कि०' न क्रीणीते शालिमुद्गादि स्वयं १, न क्रापयति चान्यैः २ । एवं नहन्ति-न सचित्तमचित्तीकरोति, तथा न घातयति, उपलक्षणत्वान्न पचत्योदनसूपादि १ । न पाचयत्यन्यैः २ । क्रीणन्तं घ्नन्तं | पचन्तं च नानुजानीते ३ । एवं पिण्डविशुद्धिरुक्ता । एकग्रहणे तज्जातीयग्रहणात् शय्यावस्त्रपात्रशुद्धयोऽप्यावेदिता भवन्ति । यदागमः
पिंडं सिज्जं च वत्थं च, चउत्थं पायमेव य । अकप्पिय न इच्छज्जा, पडिगाहिज्ज कप्पियं ॥१॥ पिंडं असोहयंतो, अचरिती इत्थ संसओ नत्थि | चारित्तमि असंते, सव्वा दिक्खा निरत्थया ||२|| एवं सिज्ज वत्थं पत्तंपि । मूलोत्तरगुणानभिधाय भङ्ग्यन्तरेण तानेवाह-उद्युक्तः संयमे यस्तु । तत्र संयमः
r endooooooooooooooooochodochochodboobs
||१७७॥
For Private and Personal Use Only