Book Title: Shraddhdin Krutya Sutram
Author(s): Rajshekharsuri
Publisher: Arihant Aradhak Trust

View full book text
Previous | Next

Page 173
________________ Shri Mahavir Jain Aradhana Kendra श्राद्धदिन० 1194211 www.kobatirth.org , तथा धर्मश्च जन्मान्तरेऽपि सम्यगुपासितः सन् प्रत्येकबुद्धादीनां जातिस्मृत्यादिना तत्त्वावबोधजनकत्वात्परमः प्रकृष्टो गुरुरिव परमगुरुर्यथा 'धर्मः सम्यगुपासितस्तनुभृतां जन्मान्तरेऽपि स्फुटम्, बोधं बन्धुरमादधाति यदयं नूनं प्रकृष्टो गुरुः । श्रूयन्ते च पुरा कृतातिविलसद्धर्मा वृषादीक्षणा-देव द्राक् करकण्डुमुख्यमुनयः, सद्द्बोधिमासंश्रिताः ||१|| ́ इति तथा मोक्षमार्गे प्रवृत्तानां जीवानामिति शेषः, धर्मः परमः प्रधानमचिरेण निर्वृतिनगरीप्रापकत्वात्स्यन्दनव परमस्यन्दनः । यथा कुत्रापि नो भंगुर एककाष्ठो, वाहौ विना याति यथेष्टभूमिं । शल्यैर्वियुक्तः खलु सर्वतोऽपि तत् स्यन्दनो नूतन एष धर्मः ||१|| इति ||२८५ ॥ धम्मो पत्थयणं दिव्वं, धम्मो रयणसंचओ । सत्थाहो मुक्खमग्गस्स, धम्मो सुट्टु निसेविओ ||२८६ ॥ व्याख्या-'धम्मो प० ́ धर्मः पथ्यदनं पाथेयं दिव्यं प्रधानं सदाप्यविनश्वरत्वाद्, यथा'अहर्निशं भोज्यमतीव पूतं, निःशेषदोषापहमव्ययं च । अनर्घ्यमुच्चैरविनश्वरं च धर्मस्ततः पथ्यदनं हि दिव्यम् ||१|| ' तथा-धर्मो रत्नसंचयो- रत्नकोशो राजाद्यधीनवृत्तित्वाभावाद् दिव्य इति शेषः । यथा Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only सूत्रम् ॥१५२॥

Loading...

Page Navigation
1 ... 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218