Book Title: Shraddhdin Krutya Sutram
Author(s): Rajshekharsuri
Publisher: Arihant Aradhak Trust

View full book text
Previous | Next

Page 182
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रम् श्राद्धदिन० ||१६१॥ Schodbodoodbodbodbodoodoodhodhotood व्याख्या-'पाणिवह० गिहमज्झं०' । मुक्त्वा मशकयूकादीति वाक्यमुत्तरसूत्रोक्तं प्राणातिपातमित्यत्र सम्बध्यते । ततश्च प्राणातिपातमनियतमेकेन्द्रियविषयं मुक्त्वा मशकयूकादीनारम्भजसापराधत्रसविषयं च । एवं मृषावादादत्तादानमैथुनान्यपि । तथा दिनलाभं प्रातर्विद्यमानः परिग्रहो दिनलाभश्च न नियमितः, इदानीं तु तमपि नियच्छामीत्यर्थः । अनर्थदण्डः कलहस्तमपि । तथाङ्गीकृतं शयनाच्छादनादि मुक्त्वा सर्वमुपभोगपरिभोगं च ।।३०१॥ गृहमध्यं मुक्त्वा दिशिगमनं च मनसो निरोद्धुमशक्यत्वाच्छेषभङ्गप्रदर्शनार्थमाह-वाक्कायाभ्यां न करोमि न कारयामि च । कालावधिमाह-ग्रन्थिसहितेन-यावन्तं कालं ग्रन्थिं न मोचयामि ||३०२।। तथा तहा कोहं च माणं च, मायं लोभं तहेव य । पिज्जं दोसं च वज्जेमि, अभक्खाणं तहेव य ||३०३।। अरइरईपेसुन्नं, परपरिवायं तहेव य । मायामोसं च मिच्छत्तं-पावठाणाणि वज्जिमो ||३०४|| व्याख्या-'तहा कोहं च०' ।'अरइ रइ० । तत्र क्रोधो- मत्सरः । मानो- गर्वः । माया- कौटिल्यम् । लोभो-4 RO मूर्छा । एतानुदयनिरोधत उदयागतविफलीकरणतञ्च वर्जयामि । अमीषां भेदादिस्वरूपं कर्मग्रन्थादिगाथाभिरवसेयम् । 8 एषु चाग्रेऽपि अनन्तानुबन्ध्यप्रत्याख्यानकषायो नास्तीति शेषकषायोदयमपि वर्जनीयमित्यर्थः । तथा प्रेमाणम्-अव्य-4 क्तमायालोभोदयरूपम् । द्वेषंच-अव्यक्तक्रोधमानोदयरूपम् । अभ्याख्यानम्-असद्दोषाधिरोपणरूपम् | रत्यरती- इष्टा bodhochochadbodbodbodboob006oooooooooooooooooooooooo ||१६१॥ GAodoook Toodoodoodoo For Private and Personal Use Only

Loading...

Page Navigation
1 ... 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218