________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रम्
श्राद्धदिन० ||१६१॥
Schodbodoodbodbodbodoodoodhodhotood
व्याख्या-'पाणिवह० गिहमज्झं०' । मुक्त्वा मशकयूकादीति वाक्यमुत्तरसूत्रोक्तं प्राणातिपातमित्यत्र सम्बध्यते । ततश्च प्राणातिपातमनियतमेकेन्द्रियविषयं मुक्त्वा मशकयूकादीनारम्भजसापराधत्रसविषयं च । एवं मृषावादादत्तादानमैथुनान्यपि । तथा दिनलाभं प्रातर्विद्यमानः परिग्रहो दिनलाभश्च न नियमितः, इदानीं तु तमपि नियच्छामीत्यर्थः । अनर्थदण्डः कलहस्तमपि । तथाङ्गीकृतं शयनाच्छादनादि मुक्त्वा सर्वमुपभोगपरिभोगं च ।।३०१॥
गृहमध्यं मुक्त्वा दिशिगमनं च मनसो निरोद्धुमशक्यत्वाच्छेषभङ्गप्रदर्शनार्थमाह-वाक्कायाभ्यां न करोमि न कारयामि च । कालावधिमाह-ग्रन्थिसहितेन-यावन्तं कालं ग्रन्थिं न मोचयामि ||३०२।। तथा
तहा कोहं च माणं च, मायं लोभं तहेव य । पिज्जं दोसं च वज्जेमि, अभक्खाणं तहेव य ||३०३।। अरइरईपेसुन्नं, परपरिवायं तहेव य ।
मायामोसं च मिच्छत्तं-पावठाणाणि वज्जिमो ||३०४|| व्याख्या-'तहा कोहं च०' ।'अरइ रइ० । तत्र क्रोधो- मत्सरः । मानो- गर्वः । माया- कौटिल्यम् । लोभो-4 RO मूर्छा । एतानुदयनिरोधत उदयागतविफलीकरणतञ्च वर्जयामि । अमीषां भेदादिस्वरूपं कर्मग्रन्थादिगाथाभिरवसेयम् । 8 एषु चाग्रेऽपि अनन्तानुबन्ध्यप्रत्याख्यानकषायो नास्तीति शेषकषायोदयमपि वर्जनीयमित्यर्थः । तथा प्रेमाणम्-अव्य-4
क्तमायालोभोदयरूपम् । द्वेषंच-अव्यक्तक्रोधमानोदयरूपम् । अभ्याख्यानम्-असद्दोषाधिरोपणरूपम् | रत्यरती- इष्टा
bodhochochadbodbodbodboob006oooooooooooooooooooooooo
||१६१॥
GAodoook
Toodoodoodoo
For Private and Personal Use Only