Book Title: Shraddhdin Krutya Sutram
Author(s): Rajshekharsuri
Publisher: Arihant Aradhak Trust

View full book text
Previous | Next

Page 175
________________ Shri Mahavir Jain Aradhana Kendra श्राद्धदिन० 1194811 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्याख्या- 'अयाईओ० अय आदितो- लोहप्रभृतिभ्यो धातुभ्यः स्वर्णं विषापहारित्वाद्यनेकगुणयुक्तत्वादुत्तमं भवेत् । तथा औषधीनां च- दृग्बन्धाग्निस्तम्भादिकर्त्रीणां सर्वासां मध्ये इति शेषः, यथा धान्यमेव सकलपुरुषार्थसाधनसमर्थ मनुजदेहपरिपालकत्वेन स्वौषधिरिति ॥२८८॥ धणाणं संचयाओ य, जहा रयणसंचओ । उत्तम होइ देहीणं, तहा धम्मो जिणाहिओ ॥२८९ ॥ व्याख्या-'धणाणं० ́ धनानां गणिमधरिमादीनां संचयाच्च यथा रत्नसंचयः सुमहार्ध्यत्वादिभिरुत्तमो भवति देहिनां तथा धर्मो जिनाख्यात इति ॥ २८९ ॥ गोसीसं चन्दणाणं च, वणाणं नंदणं वणं । जिणनाहोत्ति, जहा णं होइ उत्तमो ||२९०॥ व्याख्या- 'गोसीसं चंदणा०' गोशीर्ष - दिव्यचन्दनमिति सौरभ्यादिगुणेन चन्दनानां, मध्ये गम्यते । वनानां नन्दनं वनं सदा फलितत्वादिना । मुनीनां च जिननाथश्चतुस्त्रिंशदतिशयत्वादिना । इतिरुपमानपरिसमाप्तौ । यथेति दृष्टान्तसाधर्म्ये । णमित्यलङ्कारे । भवति उत्तमः । अत्र च यथोत्तमशब्दयोरसकृदभिधानं शुद्धधर्मविषयेऽत्यादरख्यापकत्वाददुष्टं । आह च-'अनुवादादरवीप्सासु भृशार्थविनियोगहेत्वसूयासु । ईषत्संभ्रमविस्मयगणनास्मरणेष्वपुनरुक्तम्' ||१|| इति ॥ २९०॥ For Private and Personal Use Only सूत्रम् 1194811

Loading...

Page Navigation
1 ... 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218