________________
Shri Mahavir Jain Aradhana Kendra
श्राद्धदिन०
1194811
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्याख्या- 'अयाईओ० अय आदितो- लोहप्रभृतिभ्यो धातुभ्यः स्वर्णं विषापहारित्वाद्यनेकगुणयुक्तत्वादुत्तमं भवेत् । तथा औषधीनां च- दृग्बन्धाग्निस्तम्भादिकर्त्रीणां सर्वासां मध्ये इति शेषः, यथा धान्यमेव सकलपुरुषार्थसाधनसमर्थ मनुजदेहपरिपालकत्वेन स्वौषधिरिति ॥२८८॥
धणाणं संचयाओ य, जहा रयणसंचओ ।
उत्तम होइ देहीणं, तहा धम्मो जिणाहिओ ॥२८९ ॥
व्याख्या-'धणाणं० ́ धनानां गणिमधरिमादीनां संचयाच्च यथा रत्नसंचयः सुमहार्ध्यत्वादिभिरुत्तमो भवति देहिनां तथा धर्मो जिनाख्यात इति ॥ २८९ ॥
गोसीसं चन्दणाणं च, वणाणं नंदणं वणं ।
जिणनाहोत्ति, जहा णं होइ उत्तमो ||२९०॥
व्याख्या- 'गोसीसं चंदणा०' गोशीर्ष - दिव्यचन्दनमिति सौरभ्यादिगुणेन चन्दनानां, मध्ये गम्यते । वनानां नन्दनं वनं सदा फलितत्वादिना । मुनीनां च जिननाथश्चतुस्त्रिंशदतिशयत्वादिना । इतिरुपमानपरिसमाप्तौ । यथेति दृष्टान्तसाधर्म्ये । णमित्यलङ्कारे । भवति उत्तमः । अत्र च यथोत्तमशब्दयोरसकृदभिधानं शुद्धधर्मविषयेऽत्यादरख्यापकत्वाददुष्टं । आह च-'अनुवादादरवीप्सासु भृशार्थविनियोगहेत्वसूयासु । ईषत्संभ्रमविस्मयगणनास्मरणेष्वपुनरुक्तम्' ||१|| इति ॥ २९०॥
For Private and Personal Use Only
सूत्रम्
1194811