________________
Shri Mahavir Jain Aradhana Kendra
श्राद्धदिन० 1194411
www.kobatirth.org
जिनधर्मोत्तमत्वमुपदर्थ्योपदेशमाह
तहा सव्वाण धम्माणं, मज्झे होइ सुउत्तमो । धम्मो जिणेहिं पन्नत्तो, अहिंसाए विभूसिओ ||२९१||
व्याख्या- 'तहा सव्वाण०' तथेति दाष्टन्तिकयोजनार्थः । ततो यथा स्वर्णाद्या अनन्तरोक्ता: पदार्था उत्तमत्वेन दर्शिताः, तथा सर्वेषां धर्माणां मध्ये भवति ऐहिकामुष्मिकसुखावहत्वेन धर्मो जिनैः प्रज्ञप्तः । अस्य च सर्वोत्तमत्वे हेतुद्वारेण विशेषणमाह- अहिंसया विभूषितः । इयमत्र भावना न चैनं विनाऽन्यत्र धर्मे मूलमहिंसा सम्यग् ज्ञायते पाल्यते चेत्यतोऽयमेव सर्वोत्तम इति सूत्रपञ्चकार्थः ॥ २९१ ||
Acharya Shri Kailassagarsuri Gyanmandir
ता पमायं महासत्तुं, उज्जमेण वियारिडं ।
काव्वो अप्पमत्तेहिं, धम्मे तुब्मेहिं उज्जमो ||२९२॥
व्याख्या- 'ता पमायं०' ता इति ततस्तदुत्तमतावगमानन्तरं प्रमादो - मद्यविषयनिद्रादिविकथालक्षणः पञ्चविधः । अज्ञानसंशयादिभेदतोऽष्टविधो वाऽनन्तदुःखजनकत्वान्महाशत्रुस्तम् । उद्यमेन जीववीर्योल्लासरूपेण खड्गेनेव विदार्य कर्तव्योऽप्रमत्तैर्धर्मे युष्माभिरुद्यमो वक्ष्यमाणलक्षणः । तथा चोक्तम्
'केवलं रिपुरनादिमानयं, सर्वदैव सहचारितामितः ।
यः प्रमाद इति विश्रुतः परा-मस्य वित्त शठतामकुंठिताम् ||१||
For Private and Personal Use Only
सूत्रम्
1194411