________________
Shri Mahavir Jain Aradhana Kendra
श्राद्धदिन० 1198911
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चलिते निर्बलत्वादेष राजा बहुसैन्यत्वाद् बलवता मालवीयनृपेण पराजेष्यते इति विभाषणेनोक्ते पूर्जनो दिशोदिशं पलायितः । शत्रुमर्दननृपश्च वैरिणं जित्वा नगरं प्रत्यागतः । उद्वसं दृष्ट्वा जने नन्तुमागते मूलशुद्ध्या बिभाषणस्य जिह्वां चिच्छेद । स च मृत्वा नरकं प्रापत् । एवं सर्वासु कथासु निन्दाद्वारेणापि विकथात्वमवसेयम् । आदिशब्दात् सुतजन्मनामकरणमुण्डनलेखशालाप्रक्षेपणविवाहोत्सवादिका नगनगरप्रासादोद्यानवापीकूपप्रपासरः सरित्समुद्रकथा अपि निःप्रयोजनं न वक्तव्याः । एतत्करणे च स्वपरात्मनोरवश्यं रागद्वेषसंभवात्तद्गतसावद्यानुमोदनेन तदन्यथावादिभिः सह विरोधसंभवेन च धर्मार्थयोर्हानिप्रसक्तेरित्यादि प्रमादाचरितमिति । एतस्माच्च प्रायः खचरत्वनरेन्द्रत्ववैरिघातचि न्तादिरूपपापध्यानसंभवोऽतस्तदपि निषिद्धमेवेति गाथार्थः ॥ २६५॥ हिंस्त्रप्रदानपापोपदेशावऽभिधित्सुराहआउह अग्गिदाणं, विसदाणं संजुयाहिगरणं च । खित्ताणि कसह गोणे, दमह एमाइ उवएसं ॥ २६६ ॥ व्याख्या-'आउह०' सुगमः || २६६ ॥ अपि च
अन्नं चिय सावज्जं, पढमं सड्ढ़ेण नेव कायव्वं । जं दट्ठूण पट्टइ, आरंभे सयललोओ वि ॥ २६७॥
व्याख्या- 'अन्नं चिय साव० ' अन्यदपि सावद्यमासन्नपर्वणि स्वगृहलेपनधवलनादि न कार्यम् । शेषं स्पष्टार्थम् ||२६७|| उक्तो यावत्कथिकः श्रावकधर्मोपदेशः । साम्प्रतं प्रतिदिनोपयोगियतनोपदेशमाह
For Private and Personal Use Only
सूत्रम्
1198911