Book Title: Shraddhavidhi Prakaranam
Author(s): Ratnashekharsuri, Vairagyarativijay, Prashamrativijay
Publisher: Tapagaccha Amar Jain Shala Khambhat
View full book text ________________
श्राद्धविधि
पञ्चमः
प्रकरणम्
प्रकाशः
ज्ञानभक्तिद्वारे वक्ष्यते ॥८॥
(९) तथा नमस्काराऽऽवश्यकसूत्रोपदेशमालोत्तराध्ययनादिज्ञानदर्शनविविधतत्तत्तपःसम्बन्धिषूद्यापनेषु जघन्यतोऽप्येकैक-| मुद्यापनं वर्षे वर्षे यथाविधि कार्यम् । यतः
लक्ष्मीः कृतार्था सफलं तपोऽपि, ध्यानं सदोच्चैर्जनबोधिलाभः । जिनस्य भक्तिर्जिनशासने श्रीर्गुणाः स्युरुद्यापनतो नराणाम् ॥ उद्यापनं यत्तपसः समर्थने, तच्चैत्यमौलौ कलशाधिरोपणम् ।
फलोपरोपोऽक्षतपात्रमस्तके, ताम्बूलदानं कृतभोजनोपरि ॥ दृश्यन्ते हि विधिना नमस्कारलक्षकोटिजापपूर्वं चैत्यस्नात्रमह-साधर्मिकवात्सल्य-सङ्घार्चादिप्रौढाडम्बरेण लक्षकोटिचोक्षाष्टषष्ठिरैरूप्यवर्तुलिकापट्टिकालेखनीमणिमुक्ताविद्रुमनाणकनालिकेराद्यनेकफलविविधपक्वान्नधान्यखाद्यस्वाद्यकर्पटकादिढौकनादिना नमस्कारस्योपधानोद्वहनादिविधिपूर्वमालारोपणेनाऽऽवश्यकसूत्राणामेवं गाथासङ्ख्यचतुश्चत्वारिंशदधिकपञ्चशत्यादिमोदकनालिकेरवर्तुलिकादिविविधवस्तुढौकनकादिनोपदेशमालादीनां सौवर्णादिगर्भदर्शनमोदकलम्भनादिना दर्शनादीनामप्युद्यापनानि कुर्वाणाः । मालारोपणं च विशेषधर्मकृत्यं, यतो नमस्कारेर्यापथिक्यादिसूत्राणां यथाशक्तिविधिनोपधानतपो विना | भणनगुणनाद्यशुद्धस्तदाराधनार्थं श्राद्धानामवश्यकृत्यमुपधानतपः, साधूनामिव योगोद्वहनम् । तदुद्यापनं च मालारोपणम् ।।
। ४५०
Loading... Page Navigation 1 ... 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524