Book Title: Shraddhavidhi Prakaranam
Author(s): Ratnashekharsuri, Vairagyarativijay, Prashamrativijay
Publisher: Tapagaccha Amar Jain Shala Khambhat

View full book text
Previous | Next

Page 514
________________ श्राद्धविधि षष्ठः प्रकरणम् प्रकाश: आजम्मं सम्मत्तं, जहसत्ति वयाइं दिक्खगह अहवा । आरंभचाउ बंभं पडिमाई अंतिआरहणा ॥१६॥ आजन्म बाल्यात्प्रभृति यावज्जीवं सम्यक्त्वं सम्यग्दर्शनं यथाशक्ति व्रतानि चाणुव्रतादीनि पाल्यानि । एतत्स्वरूपाद्यर्थदीपिकायामुक्तत्वादत्र नोच्यते । द्वारद्वयं १२-१३। तथा दीक्षाग्रहोऽवसरे प्रव्रज्यास्वीकारः कार्यः । अयमर्थः-श्राद्धो हि बाल्ये दीक्षाग्रहणासम्भवेन स्वं वञ्चितमिव नित्यं मन्यते। यतः धन्ना हु बालमुणिणो कुमारवासम्मि जे उ पव्वइआ । निज्जिणिऊण अणंगं, दुहावहं सव्वलोआणं ॥ स्वदैववशजातं गृहस्थभावं चाहर्निशं सर्वविरतिप्रतिपत्त्येकाग्रचित्ततयाऽम्बुघटद्वयवाहिवनितासत्यादिन्यायेन पालयति । आह | कुर्वन्ननेककर्माणि कर्मदोषैर्न लिप्यते । तल्लयेन स्थितो योगी, यथा स्त्री नीरवाहिनी ॥ परपुंसि रता नारी, भर्तारमनुवर्त्तते । तथा तत्त्वरतो योगी, संसारमनुवर्त्तते ॥ जह नाम सुद्धवेसा, सुअंगपरिकम्मणं निसंसा । अज्ज कल्लं व चएमि, एअंमि अ भावओ कुणइ ॥ ४८७

Loading...

Page Navigation
1 ... 512 513 514 515 516 517 518 519 520 521 522 523 524