________________
श्राद्धविधि
षष्ठः
प्रकरणम्
प्रकाश:
आजम्मं सम्मत्तं, जहसत्ति वयाइं दिक्खगह अहवा ।
आरंभचाउ बंभं पडिमाई अंतिआरहणा ॥१६॥ आजन्म बाल्यात्प्रभृति यावज्जीवं सम्यक्त्वं सम्यग्दर्शनं यथाशक्ति व्रतानि चाणुव्रतादीनि पाल्यानि । एतत्स्वरूपाद्यर्थदीपिकायामुक्तत्वादत्र नोच्यते । द्वारद्वयं १२-१३।
तथा दीक्षाग्रहोऽवसरे प्रव्रज्यास्वीकारः कार्यः । अयमर्थः-श्राद्धो हि बाल्ये दीक्षाग्रहणासम्भवेन स्वं वञ्चितमिव नित्यं मन्यते। यतः
धन्ना हु बालमुणिणो कुमारवासम्मि जे उ पव्वइआ । निज्जिणिऊण अणंगं, दुहावहं सव्वलोआणं ॥ स्वदैववशजातं गृहस्थभावं चाहर्निशं सर्वविरतिप्रतिपत्त्येकाग्रचित्ततयाऽम्बुघटद्वयवाहिवनितासत्यादिन्यायेन पालयति । आह |
कुर्वन्ननेककर्माणि कर्मदोषैर्न लिप्यते । तल्लयेन स्थितो योगी, यथा स्त्री नीरवाहिनी ॥ परपुंसि रता नारी, भर्तारमनुवर्त्तते । तथा तत्त्वरतो योगी, संसारमनुवर्त्तते ॥ जह नाम सुद्धवेसा, सुअंगपरिकम्मणं निसंसा । अज्ज कल्लं व चएमि, एअंमि अ भावओ कुणइ ॥
४८७