________________
श्राद्धविधिप्रकरणम्
प्रकाश:
ओहो सुओवउत्तो, सुअनाणी जइ हु गिण्हइ असुद्धं । तं केवली वि भुंजइ, अपमाणसुअं भवे इहरा ॥
श्रुतं हि दुष्षमाकालवशाद् द्वादशवर्षी दुर्भिक्षादिभिरुच्छिन्नप्रायं मत्वा भगवद्भिर्नागार्जुनस्कन्दिलाचार्यप्रभृतिभिः पुस्तकेषु न्यस्तम् । ततः श्रुतबहुमानिना तत्पुस्तकेषु लेखनीयं दुकूलादिभिरभ्यर्चनीयं च । श्रूयते च साधुपेथडेन सप्त मन्त्रिवस्तुपालेन - चाष्टादशकोटिद्रव्यैस्त्रयो ज्ञानकोशा लेखिताः । थिरापद्रीयसङ्घपति-आभूनाम्ना तु त्रिकोटिटङ्ककैः सर्वागमप्रतिरेका सौवर्णाक्षरै| द्वितीया सर्वग्रन्थप्रतिश्च मष्यक्षरैः । द्वारं १०।।
तथा पौषधशालायाः श्राद्धादीनां पौषधग्रहणार्थं साधारणस्थानस्य प्रागुक्तगृहविधिना कारणं विधापनं विधेयम् । सा च साधर्मिकार्थं कारिता प्रगुणिता च निरवद्यार्हस्थानत्वेन यथावसरं साधूनामप्युपाश्रयत्वेन प्रदेयेति तस्याः महाफलत्वम् । यतः
जो देउवस्सयं जइवराण तवनियमजोगजुत्ताणं । तेणं दिन्नावत्थन्नपाणसयणासणविगप्पा ॥
श्रीवस्तुपालेन नवशती चतुरशीत्यधिका पौषधशालाः कारिताः । सिद्धराजजयसिंहप्रधानमन्त्रि 'सांतू' नाम्ना नव्यभव्यस्वावासं वादिदेवसूरीणां दर्शयित्वोक्तं, कीदृगयं ? शिष्यमाणिक्येनोक्तं, पौषधशाला स्यात्तदा वर्ण्यते, मन्त्रिणोक्तं, 'एष सैव भवतु' तस्यां बाह्यपट्टशालायां द्वयोः पार्श्वयोरादर्शाः पुरुषप्रमाणा आसन्, श्राद्धानां धर्मध्यानादनु वक्त्रवीक्षार्थम् । द्वारं ११ । इति । पञ्चदशगाथार्थः ॥
AAAAAAAAAAA
४८६