Book Title: Shraddhavidhi Prakaranam
Author(s): Ratnashekharsuri, Vairagyarativijay, Prashamrativijay
Publisher: Tapagaccha Amar Jain Shala Khambhat

View full book text
Previous | Next

Page 496
________________ श्राद्धविधि प्रकरणम् । प्रकाश: शिक्षितसकलकलस्य हि प्रागुक्तसप्तविधाजीविकोपायानामन्यतरेणाप्युपायेन सुखनिर्वाहसमृद्धत्वादि स्यात् । सर्वाः कलाः | शिक्षितुमशक्तस्त्वत्र सुखनिर्वाहादेः प्रेत्य सद्गतेश्च हेतुं कलां शिक्षेतैव । यतः सुअसायरो अपारो, आउं थोवं जिआ य दुम्मेहा । तं किंपि सिक्खिअव्वं, जं कज्जकरं च थोवं च ॥ जाएण जीवलोए, दो चेव नरेण सिक्खिअव्वाइं । कम्मेण जेण जीवइ, जेण मओ सग्गइं जाइ ॥ निन्द्यपापमयकर्मणा निर्वाहकरणं तु सूत्रे 'उचिअं' इत्युक्तेरनौचित्यादेव निषिद्धम् । द्वारम् २। तथा पाणिग्रहणं विवाहः तदपि त्रिवर्गसिद्धिहेतुतयोचितमेव युक्तम् । तच्चान्यगोत्रजैः समानकुलसदाचारादिशीलरूपवयोविद्याविभववेषभाषाप्रतिष्ठादिगुणैरेव सार्द्धम् । कुलशीलादिवैषम्ये हि मिथोऽवहीलनाकुटुम्बकलहकलङ्काद्यापत्तिः । यथा पोतनपुरे श्रीमत्याः श्राद्धसुतायाः सादरं मिथ्यादृशोढायाः सुधर्मदृढायाः वैधाद्विरक्तभ; गृहान्तर्घटेऽहिं क्षिप्त्वा पुष्पमालां घटादानयेत्यादेशो ददे । नमस्कारस्मृतिमहिम्ना च तस्याः पुष्पमालैव जज्ञे । ततः पत्यादयोऽपि श्राद्धीबभूवुः । कुलशीलादिसाम्ये तु साधुपेथडप्रथमिणिदेव्यादीनामिव सर्वाङ्गीणसुखधर्ममहत्त्वादयो गुणाः । सामुद्रिकशास्त्राद्युक्तवपुर्लक्षणजन्मपत्रिकान्वेषणादिना च कन्यावरयोः परीक्षा । तदुक्तं कुलं च शीलं च सनाथता च, विद्या च वित्तं च वपुर्वयश्च । वरे गुणाः सप्त विलोकनीयास्ततः परं भाग्यवशा हि कन्या ।। ४६९

Loading...

Page Navigation
1 ... 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524