________________
श्राद्धविधि
प्रकरणम् ।
प्रकाश:
शिक्षितसकलकलस्य हि प्रागुक्तसप्तविधाजीविकोपायानामन्यतरेणाप्युपायेन सुखनिर्वाहसमृद्धत्वादि स्यात् । सर्वाः कलाः | शिक्षितुमशक्तस्त्वत्र सुखनिर्वाहादेः प्रेत्य सद्गतेश्च हेतुं कलां शिक्षेतैव । यतः
सुअसायरो अपारो, आउं थोवं जिआ य दुम्मेहा । तं किंपि सिक्खिअव्वं, जं कज्जकरं च थोवं च ॥ जाएण जीवलोए, दो चेव नरेण सिक्खिअव्वाइं । कम्मेण जेण जीवइ, जेण मओ सग्गइं जाइ ॥ निन्द्यपापमयकर्मणा निर्वाहकरणं तु सूत्रे 'उचिअं' इत्युक्तेरनौचित्यादेव निषिद्धम् । द्वारम् २।
तथा पाणिग्रहणं विवाहः तदपि त्रिवर्गसिद्धिहेतुतयोचितमेव युक्तम् । तच्चान्यगोत्रजैः समानकुलसदाचारादिशीलरूपवयोविद्याविभववेषभाषाप्रतिष्ठादिगुणैरेव सार्द्धम् । कुलशीलादिवैषम्ये हि मिथोऽवहीलनाकुटुम्बकलहकलङ्काद्यापत्तिः । यथा पोतनपुरे श्रीमत्याः श्राद्धसुतायाः सादरं मिथ्यादृशोढायाः सुधर्मदृढायाः वैधाद्विरक्तभ; गृहान्तर्घटेऽहिं क्षिप्त्वा पुष्पमालां घटादानयेत्यादेशो ददे । नमस्कारस्मृतिमहिम्ना च तस्याः पुष्पमालैव जज्ञे । ततः पत्यादयोऽपि श्राद्धीबभूवुः । कुलशीलादिसाम्ये तु साधुपेथडप्रथमिणिदेव्यादीनामिव सर्वाङ्गीणसुखधर्ममहत्त्वादयो गुणाः । सामुद्रिकशास्त्राद्युक्तवपुर्लक्षणजन्मपत्रिकान्वेषणादिना च कन्यावरयोः परीक्षा । तदुक्तं
कुलं च शीलं च सनाथता च, विद्या च वित्तं च वपुर्वयश्च । वरे गुणाः सप्त विलोकनीयास्ततः परं भाग्यवशा हि कन्या ।।
४६९