Book Title: Shraddhavidhi Prakaranam
Author(s): Ratnashekharsuri, Vairagyarativijay, Prashamrativijay
Publisher: Tapagaccha Amar Jain Shala Khambhat

View full book text
Previous | Next

Page 511
________________ श्राद्धविधिप्रकरणम् प्रकाश: सर्वाङ्गीणसत्कारणबन्दिमोक्षकारण-मारिनिवारणावारितसत्रवितरण-सूत्रधारसत्कारण-स्फीतसङ्गीताद्यभिनवोद्भुतोत्सवावतारणादिरष्टादशस्नात्रकरणादिश्च प्रतिष्ठाकल्पादेर्जेयः । प्रतिष्ठायां स्नात्रैर्जन्मावस्थां, फलनैवेद्यपुष्पविलेपनसङ्गीताद्युपचारैः कौमाराद्युत्तरोत्तरावस्थां, छाद्मस्थ्यसूचकाच्छादनाच्छादितकायत्वाद्यधिवासनया शुद्धचारित्रावस्थां, नेत्रोन्मीलनेन केवलोत्पत्त्यवस्थां, सर्वाङ्गीणपूजोपचारैश्च समवसृत्यवस्थां चिन्तयेदिति श्राद्धसमाचारीवृत्तौ । प्रतिष्ठानन्तरं च द्वादशमासान् विशिष्य च प्रतिष्ठादिने स्नात्रादि कृत्वा सम्पूर्ण वर्षेऽष्टाह्निकादिविशेषपूजापूर्वमायुर्ग्रन्थिर्बन्धनीयः, उत्तरोत्तरविशेषपूजा च कार्या । तद्दिने च सार्मिकवात्सल्यसङ्घार्चादि यथाशक्ति विधेयम् । प्रतिष्ठाषोडशके त्वेवमुक्तम् अष्टौ दिवसान् यावत्, पूजाऽविच्छेदतोऽस्य कर्त्तव्या । दानं च यथाविभवं, दातव्यं सर्वसत्त्वेभ्यः ॥ द्वारम् ७/ __ तथैव प्रौढोत्सवैः सुतादीनां पुत्रादीनाम् आदिशब्दात् पुत्रीभ्रातृभ्रातृव्यस्वजनसुहृत्परिजनादीनां प्रव्राजना च दीक्षादापनमुपलक्षणत्वादुपस्थापनाकारणं च विधेयम् । यतः पंच य पुत्तसयाई, भरहस्स य सत्त नत्तुअ सयाई । सयराहं पव्वइया, तम्मि कुमारा समोसरणे ॥ कृष्णचेटकनृपयोस्तु स्वापत्यविवाहनेऽपि नियमवतोः स्वपुत्र्यादीनामन्येषां च थावच्चापुत्रादीनां प्रौढोत्सवैः प्रव्राजना प्रतीता। इयं च महाफला । यतः ४८४

Loading...

Page Navigation
1 ... 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524