Book Title: Shraddhavidhi Prakaranam
Author(s): Ratnashekharsuri, Vairagyarativijay, Prashamrativijay
Publisher: Tapagaccha Amar Jain Shala Khambhat

View full book text
Previous | Next

Page 506
________________ श्राद्धविधिप्रकरणम् करपुरादिपूजार्थं दत्वा 'राज्यं नरकान्तं प्रभावतीसुतायाभीचये कथं ददामि ?' इतिधीः केशिनामधेयं जामेयं राज्ये न्यस्य तत्कृतोत्सवः श्रीवीरपार्श्वे प्रवव्राज । स चरमराजर्षिः कदाचिदकालापथ्याहारैर्महाव्याध्युत्पत्तौ 'शरीरमाद्यं खलु धर्मसाधनम्' इति वैद्योक्तदधिकृते गोष्ठेषु तिष्ठन् वीतभये प्राप्तः, व्रतभग्नो राज्यार्थ्ययं मार्य एवेत्यमात्यैर्व्युद्ग्राहितः केशी भक्तोऽपि सविषं दध्यदापयत् । सुरेण विषं हृत्वा दधिग्रहणं निषिद्धं पुनर्व्याधिवृद्धौ दधिग्रहणे त्रिः सुरेण विषं हृतं । जातु सुरप्रमादे सविषदधिभोगे मासमनशनेनोत्पन्नकेवलः सिद्धः । सुरस्तु क्रुद्धो वीतभये पांसुवृष्टिं चक्रे । कुम्भकारं राजर्षिशय्यातरं सिनपल्लयां नीत्वा कुम्भकारकृतमिति तन्नाम न्यस्तवान् । उदायननृपसुतोऽभीचिर्योग्यत्वेऽपि पित्रा राज्याप्रदानाद् दूनो मातृष्वस्त्रेयकूणिकनृपोपान्ते गत्वा सुखं स्थितः । सुश्राद्धधर्ममाराधयन्नप्यत्यक्तपितृपराभववैरस्तदनालोच्य पाक्षिकानशनेन मृतोऽसुरवरोऽभूत् एकपल्यायुः । ततो विदेहे सेत्स्यति । पांसुवृष्टौ भूगता कपिलर्षिप्रतिष्ठिता प्रतिमा श्रीगुरुमुखात् ज्ञाता कुमारपालनृपेण । पांसुस्थलखानने उदायननृपदत्तशासनपत्रान्विता सद्यः स्फुटीभूता । यथावत् प्रपूज्य प्राज्योत्सवैरणहिल्लपत्तने नीता । | नव्यकारितगरीयस्तरस्फाटिकप्रासादे न्यस्ता । पत्रलिखितमुदायननृपदत्तं ग्रामाकरादिशासनं सर्वं प्रमाणीकृत्य चिरमर्चिता च । तत्प्रतिमास्थापनेन सर्वाङ्गीसमृद्ध्या ववृधे । इति देवाधिदेवप्रतिमोदायननृपादिसम्बन्धः । एवं देवदायकरणे हि विशिष्टपूजाद्यविच्छित्तियथाविलोक्यमानचैत्यादिसमारचनदक्षादिसुयुक्तिः । तदुक्तम् जो जिणवराण भवणं, कुणइ जहासत्ति विहवसंजुत्तं । सो पावइ परमसुहं, सुरगणअभिनंदिओ सुइरं ॥ द्वारं ५ | प्रकाश: ४७९

Loading...

Page Navigation
1 ... 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524