Book Title: Shraddhavidhi Prakaranam
Author(s): Ratnashekharsuri, Vairagyarativijay, Prashamrativijay
Publisher: Tapagaccha Amar Jain Shala Khambhat
View full book text ________________
श्राद्धविधि
षष्ठः
प्रकरणम्
प्रकाश:
मूर्खनिर्धनदूरस्थशूरमोक्षाभिलाषिणाम् । त्रिगुणाधिकवर्षाणां, न देया कन्यका बुधैः ॥ अत्यद्भुतधनाढ्यानामतिशीतातिरोषिणाम् । विकलाङ्गसरोगाणां, चापि देया न कन्यका ॥ कुलजातिविहीनानां पितृमातृवियोगिनाम् । गेहिनीपुत्रयुक्तानां, न देया कन्यका बुधैः ॥ बहुवैरापवादानां, सदैवोत्पन्नभक्षिणाम् । आलस्याऽऽहतचित्तानां, न देया कन्यका बुधैः ॥ गोत्रिणां द्यूतचौर्यादिव्यसनोपहतात्मनाम् । वैदेशिनामपि प्रायो, न देया कन्यका बुधैः ॥ निर्व्याजा दयितादौ, भक्ता श्वश्रूषु वत्सला स्वजने । स्निग्धा च बन्धुवर्गे, विकसितवदना कुलवधूटी ॥ यस्य पुत्रा वशे भक्ता, भार्या छन्दानुवर्तिनी । विभवेष्वपि सन्तोषस्तस्य स्वर्ग इहैव हि ॥
अग्निदेवादिसाक्षिकं पाणिग्रहणं विवाहः । स च लोकेऽष्टविधः । तत्रालङ्कृत्य कन्यादानं ब्राम्यो विवाहः ।१।। विभवविनियोगेन कन्यादानं प्राजापत्यः २। गोमिथुनदानपूर्वकमार्षः ३। यत्र यज्ञार्थमृत्विजः कन्याप्रदानमेव दक्षिणा स दैवः ।। एते धर्ध्या विवाहाश्चत्वारः । मातुः पितुर्बन्धूनां चाप्रामाण्यात्परस्परानुरागेण मिथः समवायाद् गान्धर्वः ५। पणबन्धेन कन्याप्रदानमासुरः ६। प्रसह्य कन्याग्रहणाद्राक्षसः ७। सुप्तप्रमत्तकन्याग्रहणात् पैशाचः ८। एते चत्वारोऽप्यधाः यदि वधूवरयोः परस्परं रुचिरस्ति तदा अधा अपि धाः । शुद्धकलत्रलाभफलो विवाहः, तत्फलं च वधूरक्षणमाचरतः सृजातसुतसन्त
AAAAAAAAAAAAAAAAAAAA
४७०
Loading... Page Navigation 1 ... 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524