Book Title: Shraddhavidhi Prakaranam
Author(s): Ratnashekharsuri, Vairagyarativijay, Prashamrativijay
Publisher: Tapagaccha Amar Jain Shala Khambhat
View full book text ________________
श्राद्धविधिप्रकरणम्
प्रकाश:
द्वादशाब्द्या श्रेष्ठिदाताकेनाऽष्टादशकोटिस्वर्णव्ययेन सप्तभूमे वास्तुशास्त्रायुक्तविधिना विधापिते सौधे रात्रौ 'पतामि पतामि' इत्युक्तिश्रुत्या भीतेन तावद्धनं लात्वा विक्रमार्कस्याऽर्पिते स्वर्णपुरुषतनादि । विधिनिष्पन्नविधिप्रतिष्ठितश्रीमुनिसुव्रतस्तूपमहिम्ना | प्रबलसैन्योऽपि कूणिको वैशाली नगरी ग्रहीतुं द्वादशाब्द्यापि न शशाक । भ्रष्टकूलवालकोक्त्या स्तूपपातने तु तदैव जगृहे । एवं गृहवद् हट्टमपि सुप्रातिवेश्मिकेऽनतिप्रकटेऽनतिगुप्ते च सुस्थाने विधिनिष्पन्नं मितद्वारत्वादिगुणं त्रिवर्गसिद्धिहेतुतयोचितं मन्तव्यम् । द्वारम् १।
तथा त्रिवर्गसिद्धेः कारणमित्युत्तरत्राऽप्यनुवर्त्तनात् त्रिवर्गसिद्धिकारितया यदुचितं तद्विद्यानां लिखितपठितवाणिज्यधर्मादिकलानां ग्रहणमध्ययनं कार्यं सम्यक् । अशिक्षितानभ्यस्तकलो हि मूर्खत्वहास्यत्वादिना पदे पदे पराभूयते, यथा | कालिदासकविः प्राग्गोपो भूपसमे स्वस्तिस्थाने 'उशरट' इत्युक्तौ ग्रन्थशोधनचित्रसभादर्शनादौ च । कलावांश्च विदेशेऽपि मान्यते | वसुदेवादिवत् । वदन्त्यपि
विद्वत्त्वं च नृपत्वं च, नैव तुल्यं कदाचन । स्वदेशे पूज्यते राजा, विद्वान् सर्वत्र पूज्यते ॥ कलाश्च सर्वाः शिक्षणीयाः । क्षेत्रकालादिविशेषेण सर्वासामपि विशेषोपयोगसम्भवाद्, अन्यथा जातु सीदत्यपि । तदाहअट्टमर्दृपि सिक्खिज्जा, सिक्खि न निरत्थअं । अट्टमट्टपसाएण, खज्जए गुलतुंबयं ।
AAAAAAAAAAAAAAAAAAA
४६८
Loading... Page Navigation 1 ... 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524